________________
४८४
सिरिसोमप्पहसूरि-विरइयं सावोचद्येन पुण्येन जाताहं राजकन्यका । तद्यो वेत्ति स विज्ञेयो मम पूर्वभव-प्रियः ||३४१०।। आचचक्षे कुमारस्त्री मृगाक्षि मुनि-भाषितम् । स्मृत्वा पञ्च-नमस्कारं त्वं राजदुहिताऽभवः ||३४११।। ततो रत्नवती बाढं विस्मय-स्मेर-लोचना । चन्द्रलेखां सखी प्रोचे पश्याश्चर्यमिदं महत् ।।३४१२।। मवृत्तान्तमयं वेत्ति किं स्वतः परतोऽथवा ?। सखी जगाद वेत्त्येषा स्वत एवेति मे मतिः ||३४१३।। यदस्यां चित्त-विश्रान्तिर्वर्तते तेऽतिशायिनी । यदस्याः पुरुषस्यैव वचनादि-विचेष्टितम् ||३४१४।। यदस्याः निकटे कामविकारास्तु स्फुरन्ति ते । ये प्रोक्ताः कामशास्त्रेषु स्त्रीणां दयित-सङ्गमे ||३४१५।। तथाहिस्त्री कान्तं वीक्ष्य नाभी प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान्, दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुक्षिप्तपाणिः । रोमाञ्च-स्वेद-मुंभाः श्रयति कुच-तट-भंसि वस्त्रं विधत्ते, सोत्कण्ठं वक्ति नीवीं शिथिलयति दशत्योष्टमङ्गं भनक्ति ।।३४१६|| तत्कारणेन केनापि तव पूर्वभव-प्रियः । सोयं पुंस्त्वं तिरोधाय स्त्री-रूपं कृत्रिमं व्यधात् ।।३४१७।। सलज्जं रत्नवत्याथ संज्ञिता प्राञ्जलिः सखी । व्यजिज्ञपदमुं नाथ स्वं रूपं दर्शयाद्यमे ||३४१८।। द्वितीयौषधि-योगेन स्त्रीत्वं संत्यज्य कृत्रिमम् । नटाविव प्रपन्नौ तौ रम्यं स्वाभाविकं वपुः ||३४११।। वीक्ष्यामरकुमाराभं कुमारं राजकन्यका । आनन्द प्राप तं यस्य त्रैलोक्यमपि संकटम् ||३४२०।। चन्द्रलेखाऽवदद्यदन्नाथ रूपं प्रकाशितम् । विधायानुग्रहं तद्वत् कुलाद्यपि निवेद्यताम् ||३४२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org