________________
४८२
सिरिसोमप्पहसूरि- विरइयं
कुमारोऽवोचदत्रार्थे दैवमेव कृतोद्यमम् । प्रार्थने दुर्लभार्थस्य चिन्ता हि विफला नृणाम् ||३३८२|| ततः प्रचलितो राजसिंहः सुमतिना समम् । महादर्शमिवाटव्याः प्रापदेकं सरोवरम् ||३३८३|| विराजयति यदुत्फुल्ल-पङ्कजाकर - मण्डितम् । व्योमेव तारकाकीर्णं विश्रान्तं पृथिवीतले ||३३८४|| ऊर्ध्या संभाव्य शुष्यन्तमब्धिं पूरयितुं पुनः । मन्ये यन्निर्ममे धात्रा पृथुलः पाथसांनिधिः || ३३८५ || तत्र'' कृत्वा जलक्रीडां तीरे चूततरोस्तले । विश्रान्तस्तत्क्षणान्निद्रां प्राप भूपालनन्दनः || ३३८६ | | कुसुमस्तोम मुञ्चित्वं न लतान्तरित - विग्रहः । सुमतिः पुनरद्राक्षीत्तत्र खेचरमागतम् ||३३८७।। सुकुमारं समालोक्य लोक- लोचन - रोचनम् । चिन्तयामास चेत्कान्ता ममानुपदमागता ||३३८८|| द्रक्ष्यत्येनं तदेतस्मिन्ननुरागं करिष्यति । अतस्तत्प्रतिषेधार्थं नारीरूपं करोम्यमुम् ||३३८१||
ततस्तटलतागुल्मात्समादायौषधीमसौ ।
घृष्ट्वोपले जलेनाऽस्याः छटया तं स्त्रियं व्यधात् ||३३१०||
गते विद्याधरे प्राप तत्कान्ता साऽपि वीक्ष्य ताम् । स्त्रीरूपां निज- सौन्दर्य - निर्जितामरयोषिताम् ||३३११।। निवृत्ती वर्त्मनानेन दृष्ट्वैतां मम वल्लभः । एतस्यामनुरक्तौ मां मात्याक्षीदिति खेचरी ॥। ३३१२।। तथैवान्यौषधीयोगात कृत्वा स्त्रीं पुरुषं ययौ । दृष्ट्वैतत्सुमतिः सम्यक् तज्जग्राहौषधिव्दयम् ||३३१३|| कुमारस्य प्रबुद्धस्य दर्शयन्तौषधीयुगम् । तं विद्याधर - वृत्तान्तं मन्त्रिपुत्रोव्यजिज्ञपत् ||३३१४ || ततः पद्मपुरं प्राप तत्राऽस्याव्दास्तिकाञ्चने । चिन्तारत्नानुभावेन जातः सर्व मनोरथः ।।३३९५ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org