________________
४८१
सुमइनाह-चरियं
अथ गते जितशत्रु-नृपे दिवं, नृपतिरत्र बभूव पुरन्दरः । परिहताऽन्य-मनुष्य-समागमा, मेयमवेत्यबभाज कलावतीम् ।।३३७४।। फलमिदं परमेष्टि-नमस्कृतेः, क्षितिपतिर्यदभूवमहं महान् । इति वदन् जिनधर्म-कृतोद्यमः, पठति तामनुवेलमयं नृपः ||३३७५।। पुरजनोऽपि ततः परमेष्ठिनां, स्तुतिमयं पठति प्रथितादरः । शुभमथाशुभमाचरति ध्रुवं, यदवनेरधिपस्तदपि प्रजाः ||३३७६।। इति निशम्य जगाद नृपात्मजः, शुभमिदं सुमते कुरुते जनः । इह भवेऽन्यभवे च महोदयं, दिशति पञ्च-नमस्कृतिरङ्गिनां ||३३७७।। यथैष चौरः परमेष्ठिमन्त्रप्रभावतो भूमिपतिर्बभूव । पुरा पुलिन्द्रो पि तथाधुनाहं जातोस्मि भूपाल-कुले विशाले ||३३७८।। कुमारमूचे सुमतिः कथं ते, पुलिन्द्रभावः समजायते ति । सोऽस्याचचक्षे परमेष्टिमन्त्रलाभान्वितं पूर्व-भवं समग्रम् ||३३७१।। उवाच सुमतिः सत्यं चलितो मतिपूर्वकम् । परिणेतुं पूराजन्म-पत्नी रत्नमती भवान् ।।३३८०।। परं पुरुषरूपेण पुरुषद्वेषिणी कथम् । द्रष्टुं रत्नवती लभ्या कुमार परिभावय ||३३८१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org