________________
४८०
सिरिसोमप्पहसूरि-विरइयं पुरे त्रैवाऽभवच्चौरः प्रचण्डश्चण्डपिङ्गलः । सोन्यदाऽप्रविशभित्वा भांडागारं महीभुजः ||३३६०।। हत्वा तस्मादसौहारं नक्षत्रश्रेणिसोदरम् । गणिकायाः कलावत्याः प्रविवेश निवेशनम् ||३३६१|| सा श्राविका तया साई भेजे भोगान् स तस्करः । अथाऽऽययौ कृतातोद्यमातङ्गानङ्ग-त्रयोदशी ।।३३६२।। तस्यां विनिर्ययुर्वेश्याः सर्वाः संभृतमूर्तयः । दिक्चक्रे शक्रचापालीस्तत्रान्यैर्मणिभूषणैः ।।३३६३।। पुष्पदामेव कामस्य तं हारं हृदि बिभ्रती । जेतुं कामापराः सर्वाः कलावत्यपि निर्ययो ||३३६४|| हारं दृष्ट्वा महादेव्याः दासी तस्यैन्यवेदयत् । सा राज्ञः कथयामास प्रतीहारमुवाच सः ||३३६५।। केन सार्द्ध वसत्येषा तद्विज्ञाय जगाद सः । चण्डपिङ्गल-चौरेण ग्राहयामास तं नृपः ॥३३६६।। शूलया भेदयामास ततो दध्यौ कलावती । मम दोषेण शूलायां रोपितश्चण्डपिङ्गलः ||३३६७।। अतो मे परिहत्यै तमपरैः पुरुषैरलम् । साम्प्रतं साम्प्रतं दातुमस्य पञ्च-नमस्क्रियाम् ||३३६८।। तां ददौ सा निदानं च कारयामास तस्करम् । नमस्कारवशादस्य स्यात्पुत्रो नृपतेरिति ॥३३६१।। ततो ऽस्यैव नरेन्द्रस्य महादेव्याः सुतोऽभवत् । तस्य चक्रे प्रबन्धेन पिता जन्म-महोत्सवम् ||३३७०।। नामं च प्रथितानन्दं पुरन्दर इति व्यधात् । कलावत्यपि बालस्य यस्य क्रीडनधात्र्यऽभूत् ।।३३७१।। दध्यौसाऽस्य समःकालो मृत्योः गर्भस्य वाऽभवत् । ततः कदाचिदेषः स्यात् स एव मम वल्लभः ।।३३७२।। रामयन्ती जगादैषा मा रुदश्चण्डपिङ्गल ! | इति श्रुत्वा मुहुर्वाचं जातिस्मरणमाप सः ।।३३७३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org