Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 507
________________ ४८२ सिरिसोमप्पहसूरि- विरइयं कुमारोऽवोचदत्रार्थे दैवमेव कृतोद्यमम् । प्रार्थने दुर्लभार्थस्य चिन्ता हि विफला नृणाम् ||३३८२|| ततः प्रचलितो राजसिंहः सुमतिना समम् । महादर्शमिवाटव्याः प्रापदेकं सरोवरम् ||३३८३|| विराजयति यदुत्फुल्ल-पङ्कजाकर - मण्डितम् । व्योमेव तारकाकीर्णं विश्रान्तं पृथिवीतले ||३३८४|| ऊर्ध्या संभाव्य शुष्यन्तमब्धिं पूरयितुं पुनः । मन्ये यन्निर्ममे धात्रा पृथुलः पाथसांनिधिः || ३३८५ || तत्र'' कृत्वा जलक्रीडां तीरे चूततरोस्तले । विश्रान्तस्तत्क्षणान्निद्रां प्राप भूपालनन्दनः || ३३८६ | | कुसुमस्तोम मुञ्चित्वं न लतान्तरित - विग्रहः । सुमतिः पुनरद्राक्षीत्तत्र खेचरमागतम् ||३३८७।। सुकुमारं समालोक्य लोक- लोचन - रोचनम् । चिन्तयामास चेत्कान्ता ममानुपदमागता ||३३८८|| द्रक्ष्यत्येनं तदेतस्मिन्ननुरागं करिष्यति । अतस्तत्प्रतिषेधार्थं नारीरूपं करोम्यमुम् ||३३८१|| ततस्तटलतागुल्मात्समादायौषधीमसौ । घृष्ट्वोपले जलेनाऽस्याः छटया तं स्त्रियं व्यधात् ||३३१०|| गते विद्याधरे प्राप तत्कान्ता साऽपि वीक्ष्य ताम् । स्त्रीरूपां निज- सौन्दर्य - निर्जितामरयोषिताम् ||३३११।। निवृत्ती वर्त्मनानेन दृष्ट्वैतां मम वल्लभः । एतस्यामनुरक्तौ मां मात्याक्षीदिति खेचरी ॥। ३३१२।। तथैवान्यौषधीयोगात कृत्वा स्त्रीं पुरुषं ययौ । दृष्ट्वैतत्सुमतिः सम्यक् तज्जग्राहौषधिव्दयम् ||३३१३|| कुमारस्य प्रबुद्धस्य दर्शयन्तौषधीयुगम् । तं विद्याधर - वृत्तान्तं मन्त्रिपुत्रोव्यजिज्ञपत् ||३३१४ || ततः पद्मपुरं प्राप तत्राऽस्याव्दास्तिकाञ्चने । चिन्तारत्नानुभावेन जातः सर्व मनोरथः ।।३३९५ ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540