________________
४७५
सुमइनाह-चरियं
ततो देशान्तरं यामीत्युक्तः सुमतिरब्रवीत् । अस्मिन्नर्थे सहायोस्मि कुमार ! कुरु वाञ्छितम् ||३२१२।। अनिवेद्यैव कस्यापि निशितासिकरो निशि । पुरात्सुमतिना सार्द्ध राजपुत्रो विनिर्ययौ ।।३२१३।। क्रमेण पृथिवीं क्रामलटव्यां देवतागृहे । प्रसुप्ता निशि शुश्राव साधकस्यार्त्तमारवम् ।।३२१४|| विभत्कृपां कृपाणं च कुमारस्तं प्रतिव्रजन् । साक्षाद्राक्षसमद्राक्षीत्कक्षा-निक्षिप्त-साधकम् ||३२१५।। तमूचे तिष्ट शिष्टात्मन्नमुं च मुञ्च साधकम् । साधकेनापराद्धं किं वराकेणामुना तव ? ।।३२१६|| राक्षसः स्माह- भद्रैष मां वशीकर्तुमुद्यतः ।। अयाचिषं महामांसं सप्तरात्रमुपोषितः ||३२१७।। तदेतन्नक्षमो दातुं महं चातिबुभुक्षितः । ततः कथममुं मुञ्चे त्वमेव परिभावय ||३२१८।। अवोचद्राजपुत्रस्तं- यद्येवं मुञ्च साधकम् । वितरामि महामांसं महात्मन्नहमेव ते ||३२११।। इत्युक्तः साधकं त्यक्त्वा प्रीतः प्रोवाच राक्षसः । देहि त्वमेव तद्यो गा निवर्त्तयति सोऽर्जुनः ||३३००।। कुमारः खड्गदण्डेन छित्त्वा सत्त्वमहोदधिः । निजाङ्गाज्जाङ्गलं यावत् प्रदातुमुपचक्रमे ।।३३०१।। तावज्जगाद सानन्दं राक्षसो नृपनन्दनम् । तुष्टोस्मि तव सत्त्वेन परप्राण-प्रदायिना !|३३०२।। वरं वृणु ततोऽवोचत् कुमारो राक्षसं प्रति । तुष्टो सि यदि मेऽभीष्टं साधकस्य तदा कुरु ||३३०३।। करिष्यामीत्यसौ जल्पन् अमोघं देवदर्शनम् । इत्यस्मै राक्षसश्चिन्तारत्नं दत्वा तिरोदधे ||३३०४।। निवृत्य राजपुत्रोपि तत्रैवायतने ययौ । अतिवाह्य निशाशेषं समित्रश्चलितोऽग्रतः ॥३३०५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org