SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४७४ सिरिसोमप्पहसूरि-विरइयं यद्येषयोगं युवयोः कथञ्चिदन्योन्य सादृश्यवतो विदिध्यात् । तदाक्षणेनाऽननुरूपवस्तु. सम्बन्ध जं मार्टि निजं कलङ्कम् ।।३२७१।। इत्यद्भुतं वस्तु निवेद्य पान्थः कुमार ! गच्छाम्यहमित्युवाच । विदानपूर्वार्थ-निवेदक श्वेत्यस्मै निजागाभरणान्यदात् सः ।।३२८०।। विसृज्य पथिकं प्राप कुमारो निज-मंदिरे । द्रष्टुं रत्नवती बालामुपायं पर्यचिन्तयत् ।।३२८१।। अथ पौरैः रहस्येवं विज्ञप्तं भूपतेः पुरः ।। यत्र यत्र कुमारोयं भ्राम्यति क्रीडया पुरे ||३२८२।। उपेक्ष्याऽपरकार्याणि संत्यज्य रुदतः शिशून् । अनावृत्य गृह-दाराण्यकृत्वा कस्यचित् त्रपाम् ।।३२८३।। कुमार-रूप-लावण्य-सौभाग्य-हतचेतसः । धावंति विहितोन्मादास्तत्र तत्र पुरस्त्रियः ||३२८४|| तेनाऽसमंजसं जज्ञे सर्वत्र नगरेऽधुना । अतः केनाप्युपायेन कुमारो वार्यतां भ्रमन् ||३२८५।। ततोऽवादीत्प्रतीहारं कृतलोककृपो नृपः । राजसिंह-कुमारस्य पुरतः कथ्यतामिदं ॥३२८६|| गृहान्तरेऽवस्थातव्यं कलाऽभ्यासकृता त्वया । बहिर्विहरतः पुंसो गलन्ति सकलाः कलाः ||३२८७।। इत्यादेशं प्रतीहारः कुमारस्य न्यवेदयत् । तातः किमिदमादिक्षन्मामेत्येष व्यचिन्तयत् ||३२८८।। ततोऽस्य पौरवृत्तान्तं सुमतिः प्रत्यपीपदत् । अवाप्त निर्गमोपायः कुमारस्तमभाषत ।।३२८१।। गृहान्तरेऽवतिष्ठेति तातादेशश्च दुष्करः । कौतुकं च मम द्रष्टुं कन्यां पांथ-निवेदिताम् ।।३२१०।। पुण्यमानं गुणस्फूर्ति नानाभाषासु कौशलम् । स्वान्ययोरन्तरज्ञानं न च देशान्तरं विना ||३२११।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy