________________
सुमइनाह-चरियं
मन्त्रिणोक्तं- महाराज ! योग्यं यद्यस्य तस्य तत् । विधाय दूराच्चानीय विधिरर्पयति स्वयं || ३२६६|| अत्रान्तरे नृपस्याग्रे प्रेक्षणीयं व्यधान्नटः । बाला पुलिन्द्रवेषेण तं नृत्यन्तं व्यलोकयत् ॥३२६७ || ततो मूर्च्छामगात्पुत्री पपात पृथिवीतले । स्वस्थीचकार तां राजा चन्दन- व्यजनानिलैः ||३२६८ || साऽवोचत्तात ! सञ्जातं जातिस्मरणमद्य मे । अहमासं महाटव्यां पुलिन्द्री पूर्व-जन्मनि || ३२६१ || अभूद्भर्त्ता पुलिन्द्रो मे जीवितादपि वल्लभः । लेभे तं चेत्प्रियं पाणिग्रहं कर्त्तास्मि नाऽन्यथा || ३२७०।
इति पथिक - वचस्सु श्रोत्र - पात्रीकृतेषु, प्रशिथिल - सकलाङ्गः प्राप मूर्च्छा कुमारः । शिशिर -1 - पवन-योगात् स्वास्थ्यमासाद्य सद्यः, करजुषमिवमुक्तां पूर्वजातिं ददर्श || ३२७१।। अथैक-प्रीति-सम्पन्नः पथिकं प्रत्यभाषत । अग्रतः किमभूत्तत्र पथिकोप्युक्तवानिदम् ॥३२७२|| प्रतिज्ञां दुहितुः श्रुत्वा तादृशीं पद्म-पार्थिवः । कथं ज्ञेयः पुलिन्द्रोऽसाविति चिन्तापरोऽभवत् ।।३२७३।। अमुं वृत्तान्तमाकर्ण्य तल्लोभेन नृपात्मजाः । दूरादेत्याऽब्रुवन् पूर्व-भवे स्वस्य पुलिन्द्रताम् ।।३२७४।। पप्रच्छ राजपुत्री तान् कुमारान् कुटिलान्निति । केन पुण्येन युष्माभिर्लेभे सम्पत्तिरीदृशी || ३२७५।। तत्तेनाज्ञासिषुः सम्यक् पूर्वजन्म- पुलिन्द्रताम् । तेषां निश्चित्य तन्वंग्या कुतोऽपेक्षा पुलिन्द्रवत् ॥३२७६ || ततोऽलीकगिरोमर्त्या एवं सञ्चिन्त्य चेतसि । मर्त्यविद्वेषणी जज्ञे केवल स्त्रीवृता च सा ।। ३२७७।। सा तत्र विदधे धात्रा रमणीनां शिरोमणिः । कल्याणमूर्त्तिरत्र त्वं कुमार ! तिलको नृणाम् || ३२७८||
For Private & Personal Use Only
Jain Education International
-
४७३
www.jainelibrary.org