SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४७६ जसः ||३३०१॥ सिरिसोमप्पहसूरि-विरइयं चिन्तारत्न-प्रभावेण सम्पन्नाशेषवाञ्छितः । स्वराज्य इव सर्वत्र विलसन्विजहार सः ।।३३०६।। पुरं रत्नपुरं प्राप रत्नप्रासाद-सुन्दरम् । राजरोहणशैलो यस्याऽवकरकूटवत् ।।३३०७।। ददर्श सर्व सौवर्णं तत्र मन्दिरमर्हतः । रत्नोत्कर्ष-गुणं दृष्ट्वा मेरोः श्रृङ्गमिवागतम् ।।३३०८।। तत्र गर्भगृहे जैनी प्रतिमां रत्ननिर्मिताम् । भून्यस्त-मस्तको नत्वा तुष्टुवे तुष्टमानसः ||३३०१।। प्रशमरस-निमग्नं दृष्टि-युग्मं प्रसन्नं, वदन-कमलमङ्कः कामिनी-सङ्ग-शून्यः । करयुगमपि यत्ते शस्त्र-सम्बन्ध-वन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ||३३१०।। ततस्तच्चैत्यमालोक्य कौतुकाक्षिप्तलोचनम् । श्रावकं पृष्टवानेकं केनेदं भद्र ! कारितम् ? ||३३११।। सो वा दीन्मणिपीठेऽस्मिन् निविश्य श्रूयतामिदम् । आसीदिह यशोभद्रः श्रेष्ठी श्रावकपुङ्गवः ||३३१२।। तस्य सूनुः शिवो नाम गुरुभिः शिक्षितोऽप्यसौ । द्यूतादिव्यसनासक्तो धर्म न प्रतिपन्नवान् ||३३१३।। सपित्रोक्तो यदाभ्येति विपत्तिस्तव दस्तरा । तदा त्वं तदिघातार्थं नमस्कारममुं स्मरेः ।।३३१४|| ततः पित्रनुरोधात् सनमस्कारमधीतवान् । पिताऽपि तस्य कालेन स्वर्गलोकमुपागमत् ।।३३१५|| शिवो दुर्ललितैः पुंभिः सङ्गतो मधुपैरिव । धनं विनाशयामास वनं मत्त इव दिपः ।।३३१६।। अन्यदा तद्गृहासन्ने त्रिदण्डी विदधे स्थितिम् । स शिवं निर्द्धनं दृष्ट्वा कृपापर इवावदत् ||३३१७।। भद्र ! त्वं हेतुना केन विषन्न इव दृश्यसे ? शिवः प्रोवाच संतोष-साधनं नास्ति मे धनं ||३३१८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy