________________
४७७
सुमइनाह-चरियं
तं परिव्राजकोऽवादीत् करोषि यदि मे वचः । विदधे ते तदा वश्यां गृहदासीमिव श्रियम् ||३३११।। शिवोऽवोचत्तवादेशं करिष्याम्येष निश्चितम् । दारिद्रयं मे प्रयातु त्वत्प्रसाद-गलहस्तितम् ।।३३२०।। परिवाडवददच्छ यद्येवं शवमक्षतम् । लभस्व क्वापि स प्रापदुदद्धं पुरुषं द्रुमे ||३३२१|| तस्मै न्यवेदयत्सो पि त्रिदण्डी शिवमब्रवीत् । अद्य कृष्ण-चतुर्दश्यां स्मशानं नय तं शवम् ||३३२२|| बलि-प्रदीप-पुष्पादि-पूजोपकरणं तथा । नीतं सर्वं शिवेनापि ययौ तत्र त्रिदण्ड्यपि ||३३२३।। यत् क्वचित् शरदभौघ शुभ्रादभास्थिदंतुरम् । क्वचित् स्थितानलज्वाला-जाल-पल्लविताम्बरम् ||३३२४।। क्वचित्कलित-कंकाल-काल-वेताल-भीषणम् । क्वचित्क्रीडद्ताशङ्क-शाकिनी-कुल-सङ्कुलम् ||३३२७।। क्वचिद्राक्षसदुर्वीक्ष्यं क्वचिद्भूतभयानकम् । क्वचिन्मघूक-पूत्कारं क्वचिद् घोर-शिवारवम् ||३३२६।। चक्रेऽस्मिन मण्डलं दत्त दीप-दीपक-मण्डलम् । तस्मिन्निवेशितस्तीक्ष्ण-करवाल-करः शवः ||३३२७।। शव-पादतलाभ्यङ्गकर्मण्यादिश्य तं शिवम् । मन्त्रं संस्मर्तुमारेभे त्रिदंडी ध्याननिश्चलः ॥३३२८|| स्मशानं प्रचुरापायं निशितासिकरः शवः । त्रिदण्डी क्रूरकर्मा चेत्येवमालोचयत् शिवः ||३३२१।। ततः पित्रा समादिष्टामनिष्टहननक्षमाम् । सोऽस्मरं तत्परः पञ्च-परमेष्टि-नमस्क्रियाम् ||३३३०।। क्षणान्तरे परिव्राजः प्रौढमन्त्र-प्रभावतः ।। चचाल किञ्चिदुत्तस्थौ तथैवन्यपतच्छवः ||३३३१|| शवस्य पतने किञ्चिद्धिचिन्त्य क्षणमात्मनः । त्रिदंडी स्मर्तुमारेभे मन्त्रमेष विशेषतः ।।३३३२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org