SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४७८ सिरिसोमप्पहसूरि - विरइयं जपान्ते पुनरुत्थाय निपपात पुनः शवः । परिव्राट् शिवमप्राक्षीत् मन्त्रं कञ्चन वेत्सि किं ?||३३३३॥ शिवोऽजानन्नमस्कार - माहात्म्यमिदमब्रवीत् । नवेधीति ततोऽत्यर्थं त्रिदण्डी मन्त्रमस्मरत् ||३३३४|| शिवस्याशिवमाधातुं नमस्कार - प्रभावतः । नाशकत्किमपि क्रुद्ध - वेतालो वेष्टितः शवः ||३३३५|| ततोऽसौ खड्गदण्डेन क्षणात् मुण्डं त्रिदण्डिनः । छित्वाधः पातयामास फलं तालतरोरिव ||३३३६|| परिव्राजक - देहोऽथ सुवर्णपुरुषोऽभवत् । तमादाय गृहं प्राप शिवः शव-समन्वितः ||३३३७|| तस्याङ्गैरन्वहं कृत्यैः प्रातः प्रातर्पुनर्नवैः । दानं भोगांश्च कुर्वन् सचैत्यमेतदकारयत् ||३३३८|| राजपुत्रोऽवदत्पञ्चनमस्कार - प्रभावतः । मुक्तं विघ्नविघातेन शिवः प्राप परां श्रियम् ||३३३१|| ततोऽसौ राजपुत्रोऽगात्पुरं क्षितिप्रतिष्ठितम् । तदानन्दमयं दृष्ट्वा मर्त्यं कञ्चन पृष्टवान् ||३३४०|| किं कारणमिदं प्रोद्यत्पताकं प्रतिमन्दिरम् । दृश्यते कनकस्तम्भ - निबद्ध - मणितोरणम् ||३३४१|| तेनोचे श्रूयतामस्मिन् पुरेऽस्ति नृपतिर्बलः । बलाभुज इवाऽशेष-विपक्ष दलनक्षमः ||३३४२|| तस्यैकदा पुरारक्षः पुरासन्नसरिज्जलैः । ऊह्यमान - महामानं मातुलिङ्गं व्यलोक्यतः ||३३४३ || प्रविश्यातस्तदादाय सोऽर्पयामास भूभुजे । वर्ण- गन्ध-रसोत्कृष्टं तत् दृष्ट्वा मुमुदे नृपः ||३३४४ || सदत्वाऽमै श्रियं प्राप्तं कुद्रमिति पृष्टवान् । नद्यामित्युक्तवानेष ततोऽमुं पार्थिवोऽवदत् ||३३४५ || अन्वेषय वनं मौलं यत्रेदमुदपद्यते । ऊर्ध्वभागे व्रजन्नेष नद्यास्तीरे ददर्श तत् ||३३४६ ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy