Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
४७६
जसः ||३३०१॥
सिरिसोमप्पहसूरि-विरइयं चिन्तारत्न-प्रभावेण सम्पन्नाशेषवाञ्छितः । स्वराज्य इव सर्वत्र विलसन्विजहार सः ।।३३०६।। पुरं रत्नपुरं प्राप रत्नप्रासाद-सुन्दरम् । राजरोहणशैलो यस्याऽवकरकूटवत् ।।३३०७।। ददर्श सर्व सौवर्णं तत्र मन्दिरमर्हतः । रत्नोत्कर्ष-गुणं दृष्ट्वा मेरोः श्रृङ्गमिवागतम् ।।३३०८।। तत्र गर्भगृहे जैनी प्रतिमां रत्ननिर्मिताम् । भून्यस्त-मस्तको नत्वा तुष्टुवे तुष्टमानसः ||३३०१।। प्रशमरस-निमग्नं दृष्टि-युग्मं प्रसन्नं, वदन-कमलमङ्कः कामिनी-सङ्ग-शून्यः । करयुगमपि यत्ते शस्त्र-सम्बन्ध-वन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ||३३१०।। ततस्तच्चैत्यमालोक्य कौतुकाक्षिप्तलोचनम् । श्रावकं पृष्टवानेकं केनेदं भद्र ! कारितम् ? ||३३११।। सो वा दीन्मणिपीठेऽस्मिन् निविश्य श्रूयतामिदम् । आसीदिह यशोभद्रः श्रेष्ठी श्रावकपुङ्गवः ||३३१२।। तस्य सूनुः शिवो नाम गुरुभिः शिक्षितोऽप्यसौ । द्यूतादिव्यसनासक्तो धर्म न प्रतिपन्नवान् ||३३१३।। सपित्रोक्तो यदाभ्येति विपत्तिस्तव दस्तरा । तदा त्वं तदिघातार्थं नमस्कारममुं स्मरेः ।।३३१४|| ततः पित्रनुरोधात् सनमस्कारमधीतवान् । पिताऽपि तस्य कालेन स्वर्गलोकमुपागमत् ।।३३१५|| शिवो दुर्ललितैः पुंभिः सङ्गतो मधुपैरिव । धनं विनाशयामास वनं मत्त इव दिपः ।।३३१६।। अन्यदा तद्गृहासन्ने त्रिदण्डी विदधे स्थितिम् । स शिवं निर्द्धनं दृष्ट्वा कृपापर इवावदत् ||३३१७।। भद्र ! त्वं हेतुना केन विषन्न इव दृश्यसे ? शिवः प्रोवाच संतोष-साधनं नास्ति मे धनं ||३३१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540