Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
४७१
सुमइनाह-चरियं
प्रविश्य तत्र गृह्णाति यः फलं मृत्युमेति सः । इत्याचख्यौ पुरा रक्षः पुरतः पृथिवीपतेः ||३३४७।। राज्ञो चेऽवश्यमानेयमेकैकं प्रत्यहं त्वया । प्रवेश्य तत्र वारेण पुरस्यैकैकमानुषम् ||३३४८।। फलादानेऽन्वहं तस्मिन् एकैको म्रियते पुमान् । कियत्यपि गते काले पुरलोके विषीदति ।।३३४१।। वारको जिनदासस्य श्रावकस्य समाययौ । ययौ तत्र विवेशान्तः सनमस्कारमुद्गृणात् ।।३३५०।। तन्निशम्य स्मरन पूर्वभव-व्रतविराधनम् । वनाधिष्टायक क्षुद्र व्यन्तरः प्रतिबुद्धवान् ||३३५१।। प्रत्यक्षीभूय नत्वा च श्रावकं स मुदाऽवदत् । दास्यामि फलमेकैकं स्थानस्थस्यैव तेऽन्वहं ||३३५२|| असौ व्यावृत्य वृत्तान्तं नृपस्य च न्यवेदयत् । प्राप्नोत्युच्छीर्षक शश्वदेकैकं व्यन्तरात् फलम् ||३३५३|| तदर्पयति राज्ञे स तुष्टेनाऽनेन पूजितः । अकालमृत्यु-विश्रान्त्या कारितश्चोत्सवः पुरे ||३३५४।। इति निशम्य महोत्सव-कारणं, नृपसुतो निजगाद जगत्यहो । इह भवे पि विपादित-विप्लवं, स्फुरति पञ्च-नमस्कृति-वैभवम् ।।३३५५।। ततो राजसुतो प्राप वसंतपुर-पत्तनम् । तत्राऽपश्यज्जनं सर्वं नमस्कार-परायणम् ||३३५६।। सोऽवोचत्सुमतिर्मित्र लोकः पञ्चनमस्क्रियाम् । निःशेषोऽपि पठत्यत्र तत्रार्थे विद्धि कारणम् ||३३५७।। सो पि सम्यक् परिज्ञाय कुतो पि पुरुषादिदम् । रूपनिर्जितमारस्य कुमारस्य पुरोवदत् ।।३३५८।। इहासीनृपतिर्नाम्ना जितशत्रु र्गुणैरपि । तस्य भद्रा महादेवी नामतो गुणतोऽप्यभूत् ।।३३५१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540