Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 498
________________ सुमइनाह-चरियं मन्त्रिणोक्तं- महाराज ! योग्यं यद्यस्य तस्य तत् । विधाय दूराच्चानीय विधिरर्पयति स्वयं || ३२६६|| अत्रान्तरे नृपस्याग्रे प्रेक्षणीयं व्यधान्नटः । बाला पुलिन्द्रवेषेण तं नृत्यन्तं व्यलोकयत् ॥३२६७ || ततो मूर्च्छामगात्पुत्री पपात पृथिवीतले । स्वस्थीचकार तां राजा चन्दन- व्यजनानिलैः ||३२६८ || साऽवोचत्तात ! सञ्जातं जातिस्मरणमद्य मे । अहमासं महाटव्यां पुलिन्द्री पूर्व-जन्मनि || ३२६१ || अभूद्भर्त्ता पुलिन्द्रो मे जीवितादपि वल्लभः । लेभे तं चेत्प्रियं पाणिग्रहं कर्त्तास्मि नाऽन्यथा || ३२७०। इति पथिक - वचस्सु श्रोत्र - पात्रीकृतेषु, प्रशिथिल - सकलाङ्गः प्राप मूर्च्छा कुमारः । शिशिर -1 - पवन-योगात् स्वास्थ्यमासाद्य सद्यः, करजुषमिवमुक्तां पूर्वजातिं ददर्श || ३२७१।। अथैक-प्रीति-सम्पन्नः पथिकं प्रत्यभाषत । अग्रतः किमभूत्तत्र पथिकोप्युक्तवानिदम् ॥३२७२|| प्रतिज्ञां दुहितुः श्रुत्वा तादृशीं पद्म-पार्थिवः । कथं ज्ञेयः पुलिन्द्रोऽसाविति चिन्तापरोऽभवत् ।।३२७३।। अमुं वृत्तान्तमाकर्ण्य तल्लोभेन नृपात्मजाः । दूरादेत्याऽब्रुवन् पूर्व-भवे स्वस्य पुलिन्द्रताम् ।।३२७४।। पप्रच्छ राजपुत्री तान् कुमारान् कुटिलान्निति । केन पुण्येन युष्माभिर्लेभे सम्पत्तिरीदृशी || ३२७५।। तत्तेनाज्ञासिषुः सम्यक् पूर्वजन्म- पुलिन्द्रताम् । तेषां निश्चित्य तन्वंग्या कुतोऽपेक्षा पुलिन्द्रवत् ॥३२७६ || ततोऽलीकगिरोमर्त्या एवं सञ्चिन्त्य चेतसि । मर्त्यविद्वेषणी जज्ञे केवल स्त्रीवृता च सा ।। ३२७७।। सा तत्र विदधे धात्रा रमणीनां शिरोमणिः । कल्याणमूर्त्तिरत्र त्वं कुमार ! तिलको नृणाम् || ३२७८|| For Private & Personal Use Only Jain Education International - ४७३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540