Book Title: Sumainahchariyam
Author(s): Somprabhacharya, Ramniklal M Shah, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
૪૭૨
सिरिसोमप्पहसूरि-विरइयं चैत्यान्यप्रतिमानि यत्र यतयः सूत्रार्थबद्धादराः । क्ष्मापालः परलोक-भीलुकमति वेलात्कुचेष्टाः स्त्रियः । श्रीमन्तो बहधा विपत्तिकलिता विप्रा न यज्ञक्रियानिष्णाताः सदनानि भोगिनिचितान्यन्यत्किमत्र स्तुमः ।।३२५६।। ततः पुरात्परमेश्वर- श्रीयुगादिदेवादिगणधरस्य कषाय-करिखंडनै क-पुण्डरीकस्य निर्वाणपद-प्राप्त्या पवित्रितं श्रीशत्रुञ्जय-तीर्थं प्रस्थितोऽस्मि यत्पुनराश्वर्यं किंचिदृष्टमिति पृष्टं तदप्याकर्णयतु कुमारः । तत्रैव पुरे प्रणत-नरपति-शत-मुकुट-मरकत-मरीचि-वीचि-चंचरीकचुम्बित-चरणपद्मः पद्मो राजा, . विजूंभितसयं ति यस्य कोपः सकोप-दुर्वात-इवातिचण्डः ।
येनारि नारीजन-यौवनानां जज्ञे वनानामिव निष्फलत्वं ।।३२५७।।
तस्य हृदय-कुशेशय-शायिनी विशुद्धोभयपक्ष-राजिनी राजहंसीव हंसी देवी ।
क्रीडत्यनङ्गन्दिरदस्तदङ्गे लावण्यसिन्धाविति तळयामि | उन्मज्जती भाति यदेतदीया कुम्भस्थली स्थूल-कुचस्थलेन ।।३२५८।। तयो (जानयो भॊगान् विश्वविश्वातिशायिनः । यज्ञे सर्वाङ्गनाचूडारत्नं रत्नवती सुता ||३२५५|| यस्याः शरीर-सौद्र्यं विभाव्य भुवनाद्भुतम् । लज्जयेव न निर्यान्ति पातालानागकन्यकाः ॥३२६०।। भ्रमन्ति शक्तिमत्यो पि खे न विद्याधराङ्गनाः । दर्शनं न प्रयच्छन्ति कस्यापि सुरयोषितः ||३२६१।। कलाकलापे सकले कलयामास कौशलम् । सा क्रमान्मदनक्रीडावनं यौवनमापद ||३२६२।। अन्यदा वरयोग्येति सा मात्रा प्रेषिता सती । पितुःसभानिविष्टस्य प्रणिपातार्थमागमत् ||३२६३।। प्रणम्य पितरं तस्य पादान्ते निषसाद सा । तां लोकोत्तर-लावण्यां दृष्ट्वाऽमात्यमुवाच सः ||३२६४|| किं रूपेणानुरूपः स्यादिधिना क्वापि निर्मितः । अस्या योग्यो वरः कश्चिदिति ताम्यति मे मनः ।।३२६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540