Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 12
________________ श्री विद्यापति चरित्रं १७१ सुख-उर्मिमयं एव उच्चैः अहनां गणं गमयतः तस्य पुरः कदा अपि का अपि स्त्री इदं अभ्यधात् ॥१०॥ युग्मम्॥ श्रीरहं त्वद्गुणश्रेणिवशेति त्वां ब्रवीम्यतः । कृष्टा दैवेन यास्यामि त्वद्गृहादशमेऽहनि ॥११॥ अन्वयः- त्वद्-गुण-श्रेणि-वशा अहं श्रीः त्वां इति ब्रवीमि अतः ____ दशमे अहनि दैवेन कृष्टा त्वद् गृहात् यास्यामि ॥११॥ अथोन्निद्रं दरिद्रोऽहं भविष्यामीति दुःखितम् । तमुवाच करद्वन्द्वशृङ्गा शृङ्गारसुन्दरी ॥१२॥ अन्वयः- अथ उन्निद्रं 'अहं दरिद्रः भविष्यामि' इति दुःखितं तं कर-द्वन्द्वशृङ्गा शृङ्गारसुन्दरी उवाच ॥१२॥ रवे रथ इव ध्वान्तं तव मालिन्यमानने । अश्रुतादृष्टपूर्वं यत् तत् किमद्य विलोक्यते ॥१३॥ अन्वयः- रवेः रथे ध्वान्तं इव यत् अश्रुत-अदृष्टपूर्वं मालिन्यं तव आनने अद्य किं विलोक्यते ? ॥१३॥ त्वया कृतास्मि स्नेहेन सुखसर्वस्वभागिनी । दुःखभागप्रदानेऽद्य किं मां वञ्चयसि प्रभो ! ॥१४॥ अन्वयः- (हे) प्रभो ! त्वया स्नेहेन सुख-सर्वस्वभागिनी कृता अस्मि, अद्य दुःखभाग-प्रदाने मां किं वञ्चयसि ? ॥१४॥ पत्या स्वप्नस्वरुपेऽथ कथिते प्रथितस्मिता । सा पुनर्भारती भेजे विवेकामृतसारणीम् ॥१५॥ अन्वयः- अथ पत्या स्वप्न-स्वरुपे कथिते प्रथित-स्मिता सा पुनः विवेकाऽमृतसारणी भारती भेजे ॥१५॥ १. भारती-वाणी।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 154