________________
श्री विद्यापति चरित्रं
१७१ सुख-उर्मिमयं एव उच्चैः अहनां गणं गमयतः तस्य पुरः
कदा अपि का अपि स्त्री इदं अभ्यधात् ॥१०॥ युग्मम्॥ श्रीरहं त्वद्गुणश्रेणिवशेति त्वां ब्रवीम्यतः । कृष्टा दैवेन यास्यामि त्वद्गृहादशमेऽहनि ॥११॥ अन्वयः- त्वद्-गुण-श्रेणि-वशा अहं श्रीः त्वां इति ब्रवीमि अतः
____ दशमे अहनि दैवेन कृष्टा त्वद् गृहात् यास्यामि ॥११॥ अथोन्निद्रं दरिद्रोऽहं भविष्यामीति दुःखितम् । तमुवाच करद्वन्द्वशृङ्गा शृङ्गारसुन्दरी ॥१२॥ अन्वयः- अथ उन्निद्रं 'अहं दरिद्रः भविष्यामि' इति दुःखितं तं कर-द्वन्द्वशृङ्गा शृङ्गारसुन्दरी उवाच ॥१२॥ रवे रथ इव ध्वान्तं तव मालिन्यमानने । अश्रुतादृष्टपूर्वं यत् तत् किमद्य विलोक्यते ॥१३॥ अन्वयः- रवेः रथे ध्वान्तं इव यत् अश्रुत-अदृष्टपूर्वं मालिन्यं तव
आनने अद्य किं विलोक्यते ? ॥१३॥ त्वया कृतास्मि स्नेहेन सुखसर्वस्वभागिनी । दुःखभागप्रदानेऽद्य किं मां वञ्चयसि प्रभो ! ॥१४॥ अन्वयः- (हे) प्रभो ! त्वया स्नेहेन सुख-सर्वस्वभागिनी कृता अस्मि,
अद्य दुःखभाग-प्रदाने मां किं वञ्चयसि ? ॥१४॥ पत्या स्वप्नस्वरुपेऽथ कथिते प्रथितस्मिता । सा पुनर्भारती भेजे विवेकामृतसारणीम् ॥१५॥ अन्वयः- अथ पत्या स्वप्न-स्वरुपे कथिते प्रथित-स्मिता सा पुनः
विवेकाऽमृतसारणी भारती भेजे ॥१५॥
१. भारती-वाणी।