________________
१७२
सुलभचरित्राणि-२ निर्वाणमार्गसञ्चारचरणस्खलशृङ्खला । हृच्छल्यं श्रीः सतां भोगफलकर्मचिरस्थिरा ॥१६॥ अन्वयः- निर्वाण-मार्ग-संचार-चरण-स्खल-शृङ्खला,
भोगफलकर्मचिर स्थिरा श्रीः सतां हत् शल्यं (इव भवति)॥१६॥ मदयेन्मदिरेव श्रीर्यदि सा याति यातु तत् । विवेक एक एव त्वां मा मुञ्चन्मदमर्दनः ॥१७॥ अन्वयः- श्री: मदिरा इव मदयेत्, सा याति, तत् यातु, मदमर्दनः
एकः विवेकः एव त्वां मा अमुञ्चत् ॥१७॥ पात्रदानं फलं लक्ष्म्यास्तद् गृहीतं बहु त्वया । फलं संप्रति दौःस्थ्यस्य तव ग्राह्यं ततोऽधिकम् ॥१८॥ अन्वयः- लक्ष्म्याः फलं पात्रदानं तत्, त्वया बहु गृहीतं,
संप्रति ततः अधिकं दौस्थ्यस्य फलं तव ग्राह्यम् ॥१८॥ मुक्तिमार्गावृतिर्लक्ष्मी र्भाग्यैस्ते भङ्गमेति चेत् । तत्कि हर्षपदे नाथ ! दुःखं भजसि निर्भरम् ॥१९॥ अन्वयः- (हे) नाथ ! मुक्तिमार्ग-आवृतिः लक्ष्मीः ते भाग्यैः चेत्
भङ्गा एति तत् निर्भरं हर्ष-पदे दुःखं किं भजसि ? ॥१९॥ गमिष्यति कथं वा श्रीर्दासेरी दशमेऽहनि । स्वायत्तैव सति सप्तक्षेत्र्यामद्यैव रोप्यताम् ॥२०॥ अन्वयः- दासेरी श्रीः वा दशमे अहनि कथं गमिष्यति ? स्व-आयत्ता
एव सति (सा) अद्य एव सप्तक्षेत्र्यां रोप्यताम् ॥२०॥ परिग्रहप्रमाणाख्यमङ्गीकृत्य व्रतं ततः । स्थीयते नीयते चैष कालः संतोषपोषकः ॥२१॥ १. आवृति:-आवर्तनं आवृति:- वाड समान ।