________________
श्री विद्यापति चरित्रं
अन्वयः - ततः परिग्रहप्रमाण - आख्यं व्रतं अङ्गीकृत्य स्थीयते संतोषपोषकः च एषः कालः नीयते ॥२१॥ इति प्रियोक्तिभिः प्रीतः प्रातःकृत्यपुरस्सरम् । सप्तक्षेत्र्यां क्षणादेष निःशेषमवपद्धनम् ॥२२॥
अन्वयः - इति प्रिया - उक्तिभिः प्रीतः एषः प्रातःकृत्यपुरस्सरं क्षणाद् सप्तक्षेत्र्यां निःशेषं धनं अवपत् ॥ २२॥
ततः स्थापितदेहोपयोगिस्वल्पपरिग्रहः ।
१७३
मध्यंदिने जिनाधीशमभ्यर्चेदं बभाण सः ॥२३॥ अन्वयः -- ततः स्थापितदेह - उपयोगी स्वल्पपरिग्रहः सः मध्यंदिने जिनाधीशं अभ्यर्च्य इदं बभाण ||२३||
शृङ्गारसुंदरी भार्या शय्यैका वसने उभे । एकं पात्रमहर्भोज्यमात्रश्चाहारसङ्ग्रहः ॥२४॥ एक-द्वि-संख्यमल्पार्थमन्यदप्यात्महेतुकम् ।
अस्तु मे वस्तु तीर्थेशसेवार्हं त्वस्तु बह्वपि ॥ २५ ॥ युग्मम् ॥ अन्वयः - शृङ्गारसुंदरी भार्या, एका शय्या, उभे वसने, एकं पात्रं, 'अहः-भोज्यमात्रः च आहारसङ्ग्रहः ||२४||
आत्महेतुकं 'अल्पार्थं एक द्वि संख्यं अन्यद् अपि वस्तु मे
अस्तु, तीर्थेश-सेवार्थं तु बहु अपि वस्तु (अस्तु) ॥२५॥ युग्मम्॥
परिग्रहं प्रमायेति प्रमोदविशदाशयः ।
स निनाय दिनं धीमान्धर्मध्यानधुरन्धरः ॥ २६ ॥
१. अहः - अहन् - दिवस । २. अल्पार्थं - अल्पं च तद् अर्थं च - अल्प मूल्यवाळी (अर्थ-धन) ।