Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 11
________________ सुलभचरित्राणि - २ १७० श्राद्धाः शृणुत तद्वृत्तमभूदुद्वृत्तवैभवः । धनी विद्यापतिरिति ख्यातः पोतनपत्तने ॥५॥ अन्वयः - (हे) श्राद्धा: ! तद्वृत्तं शृणुत, पोतनपत्तने उद्वृत्तवैभवः धनी विद्यापतिः इति ख्यातः अभूत् ॥५॥ सर्वज्ञसेवकोऽप्येष निजश्रियामपि । संख्यातिं ज्ञातवान्नैव ज्योतिषी ज्योतिषामिव ॥ ६ ॥ अन्वयः - सर्वज्ञ - सेवकः अपि एषः निजस श्रियां संख्यातिं अपि ज्योतिषां ज्योतिषी इव नैंव ज्ञातवान् ॥६॥ तस्याजनिष्ट गृहिणी स्पृहणीयगुणोदया । जिनेशशासनाम्भोजभृङ्गी शृङ्गारसुन्दरी ॥७॥ अन्वयः - स्पृहणीय-गुणोदया जिनेश - शासन - अम्भोज-भृङ्गी शृङ्गारसुन्दरी (नाम्ना) तस्य गृहिणी अजनिष्ट ॥७॥ सप्तक्षेत्र्यां वपन्वित्तमनन्तगुणलाभधीः । प्रयत्नेन यथाकालं वृषपोषं चकार सः ॥८ ॥ अन्वयः - अनन्तगुण - लाभधीः प्रयत्नेन सप्तक्षेत्र्यां वित्तं वपन् सः यथाकालं वृषपोषं चकार ॥८॥ धनमर्जयतो नित्यमृणं तर्जयतः सताम् । धर्मं कल्पयतः काममघमल्पयतः परम् ॥९॥ सुखोर्मिमयमेवोच्चैरह्नां गमयतो गणम् । स्वप्ने कापि कदापि स्त्री पुरस्तस्येदमभ्यधात् ॥१०॥ युग्मम्॥ अन्वयः - धनं नित्यं अर्जयतः सतां ऋणं तर्जयतः, कामं धर्मं कल्पयतः परम् अघं अल्पयतः ॥१०॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 154