Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 162
________________ ४९ श्रीभोजदेवविरचिता तपनतेजसां विसरेण प्लुष्यमानानां वनस्थलीनां पूत्कृतेष्वि व बधिरितदिगन्तमुद्गच्छन्तीषु तारतरासु चीरिटीकाविरुतिषु, जरदजगरश्वाससन्धुक्षमाणज्वालावलीजटिलितेषु प्लुष्यमाणक्षुद्रकीट""-[ F. 84. A ] कुटुम्बकठिनत्वक्तडत्कारवाचालेषु भयचकितोड्डीयमानशकुनिकुलपक्षपालीपवनप्रेखितशिखेषु, ज्वलत्सु सर्वतो दावज्वलनेषु, दीर्घत"रदिवसजनितगमनमार्गखेदात् समुत्पन्नतांतिशय इव प्रौढतात्य[य]धर्मरश्मावापिबति सकलानपि सलिलाशयान् प्रतिदिवसमपचीय"मानसलिलतया तरङ्गितसैकतासु, प्रविरलजलोपशल्यसञ्चरद्धककुलावलोकनाकुलितशफरिकासु, जठरशेवालमञ्जरीपुञ्जतल"विश्रान्तधर्मग्लपितबालकमठासु, स्तोकस्तोकनीलायमानवेतसलतासु, रविकरोच्छिद्यमानतीरतरुसौन्दर्यसन्तापादिव तनिमान"मागच्छन्तीषु क्षितिधरनिकुञ्जस्रोतखिनीसु, मुहुर्मुहुरीषदुत्फुल्लनासिकाविवरनिःसृतश्वासपवनैरनवरतमेकतः प्रेढोलितविषाणकोटिकण्डूयितदंशोपसृष्टकुक्षिभिर्मुहुर्मुहुर्मशककुलवासनार्थमुल्लसितलाङ्गेललतिकाच्छोटितपृष्ठभागै” -[ F. 84. B] घनमहिषकुलैः कदीमानक्षुद्रजलचरेषु, पङ्कशोषवशादन्तरन्तःप्रविशत्कीटककुटुम्बिनीसंश्रियमाणसन्धिरन्ध्रेषु, पङ्कोपदिग्धान्तः प्रतनुसलि"लेषु कासारोदरेषु, तरुणतपनतापक्लमोपजनिततन्द्रीसुखान्तरालविहितरोमन्थेषु प्रच्छायमाश्रयत्सु मृगकदम्बकेषु, दृषनियूहच्छायानिलयनेनिभृतहुङ्कणकाहुकृतैर्घमक्लमकान्तिनिःसहतया निर्खनविव क्षितिधरनिकुञ्जेषु, मनाग् विनतेष्ववनिभागेष्वतिब हलरविकिरणनिपतनोद्गताभिः प्रसरन्तीभिः परितो मृगतृष्णिकाभिः प्रलोभ्यमानेपूर्द्धकर्णकन्धरेषु क्लमवशादीपन्मुकुलितलोचने"षु तर्षतरलेष्वितस्ततो धावत्सु बालहरिणकेषु, निजचापलभ्रमणखेदविधुरेष्ववनिरुहस्कन्धशाखान्तरनिलयननिभृतेषु यथायथमुपविष्टेष्वासीनप्रचलायितेन मध्यन्दिनतापतन्द्रीं गमयत्स्वपरेषु च निद्रा[ल ]सविवशतया शिथिलाङ्गेषु प्रपतत्सु पुनरुत्पत्यारोहत्सु क-[F. 35. A ]पिकुलेषु, दलितकजलश्यामलेष्वतिबहलपङ्कावलेपद्विगुणितवपुःश्यामिकेषु मुहुर्मुहुर्पूर्णमानकपिलारुणलोचनेष्वर्कभया"त् तमःसञ्चयेष्विवान्तरान्तरोल्लसितखद्योतद्युतिच्छिद्रितेषु पल्वलप्रान्तमुस्तास्तम्बगहनान्याश्रयत्सु पनवराहयूथेषु, तीव्रतरतरणिकरनिकरव्यतिकरादलननिर्मितेष्विव स्पर्शतोऽपि दत्तपथिकव्यथेषु, पक्षपुटसन्धिसञ्चारितोत्तप्तधरणिरजःकणप्लोषमीतैर्जीर्ण"तरुकोटरेषु निलीय निलीय पतत्रिभिर्विमुच्यमानागमनमार्गेषु, सहजप्रेमानुरक्तप्रेयसीपरिहरणजनितैः पथिकानामयः"शूलैरिर्वं दवदहनदग्धतृणस्तम्बशकलैः किर्मीरितदिअखेषु धर्ममर्मरितोन्मूलितक्षितिरुहच्छदनिकरकरम्बिताम्बरेषु, निविडतरताडनप्रचलझणझणायमानोत्पाकश्यामीकृततमालबीजबीजकोशीशतसततसंवर्गितचीरीचित्कारमुखरितेषु, प्रतिविपिन -[F. 85. B]मुत्सङ्गिताभिझिल्लीकोज्झिताभिः सलिलकणिकाभिरात्मनोऽपि १ चीरिका। २ 'तोडीयमान। ३ प्रेड़ित । ४ दिग्धातः । ५ निलयना । ६ निष्टनत्स्विव । ७ पट । ८ कामामयशोलवैरिव । ९ °मर्मरतितो। १० श्यामकृतमालबीज। शृङ्गा. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312