Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 198
________________ ८५ श्रीभोजदेवविरचिता पैतृकादृणान्मुच्यते पुरुष इत्यवश्यं दारपरिग्रहो विधेयः, न चातिशङ्किना भवितव्यम्' इत्यादि बहुधाभिधीयमानः [T. 145. B] [ अत्रादर्शे १४६-१४७ अङ्काङ्कितं पत्रयुग्मं विनष्टम् ] दयत्यविजितधर्मक्लमप्रसरे मलयरजसे मदनकेलिक्लमग्लपितवपुषा विलासिनामतिश्लक्ष्णतया लघुतया च सततमनवरुद्धव्यजनपंव "नप्रसरेषु भोग्यतामायात्सु सितदुकूलेषु, क्रीडातडागिकानामनुकुलीरलेखमच्छिनीदलान्तरालच्छायामाश्रित्य बन्धुरितकन्धरमन्योन्यकण्डूयन सुखान्यनुभूयानुभूय मध्यन्दिनतापतन्द्रीमतिवाहयत्सु चक्रावकमिथुनेषु, तीव्रतरतरणितापभयादुपरितनसुमनसामुत्सृज्यापि मकरन्दपानमन्तर्लताभवनान्याश्रयत्सु मधुकरद्वन्द्वेषु, प्रमदवनदीर्घिकासलिलविहतिमिः शिशिरतनुलतासु निर्मोकशुचिना तनुतरेण मृगमदरसचित्रितेन च वाससा परिक्षिप्तजघनस्तनभरासु, दलितपाटलप्रसवसंवलिताभिर्विचकिलस्रग्भिराकलितकेशपाशासु, मसृणघनसाररे"णुसंवर्गणद्विगुणसुरभिणाऽच्छाच्छेन मलयरजसेनाश्लिष्टकुचतटासु, प्रियतमानभिसरन्तीषु मध्यन्दिनाभिसारिकासु, [F. 148. A] निबिडोन्मिषदृष्मसन्तप्तककुभा ग्रीष्मेण समन्ततो निरुद्धप्रसारभयानिलीन इव धारागृहेषु, आश्रित इव सुध्रुवां स्तनभरेषु, प्रविष्ट इव क्रीडाक"मलिनीनां दलप्रच्छायेषु, पुज्जीभूय स्थित इवोपवनक्षितिरुहामधःपरिसरेषु, कृतावास इव कदलीखण्डमण्डपाभ्यन्तरेषु, प्राप्तस्थितिरिव सद्यःस्नातोत्थितनितम्बिनीचिहुरभारेषु, निलीन इवातिबहलपत्रश्यामलेषु तालीवनेषु, निर्मथितदवथावनिम्ने शीतलिम्नि दरदलितमल्लिकामुकुलमालिकार्चितचिकुरनिकराभिरामे, तुहिनकरकान्तदन्तपत्रालङ्कृतकश्रवणपाशोपशोभिन्युन्मार्जितदशनद्युतिस्तबकि "ताधरे, अतिविमलस्थूलमुक्ताफलमालिकावलयितमलयरजसाश्लिष्टस्तनभरभुवि, स्वच्छसितदुकूलच्छन्नवपुषि, मुषितहरिणलाञ्छनच्छवा वतिकमनीये कामपि श्रियमाश्रयति श्यामलानामश्यामले नेपथ्यविभवे, समन्ताद् दृतिमुखोद्गीर्णाभिरम्भसो' [F. 148. B] धाराभिरासिच्यमानमरुबकव्यतिकरितदमनकामोदसुरभितदिगन्तासु सहकारतरुगहनभुवि मध्यन्दिनतापक्लान्तिमपनेतुं विलासिमि"थुनैरध्यास्यमानासु सेचनकुटीषु, दिवसकरसन्तापोपजायमानोष्मणां भवनानामन्तर्निवासमुत्सृज्य मलयरजसोन्मार्जितस्फटिक "कुट्टिमानि सौधोत्सङ्गतलानि प्रतिनिशमध्यासमानेषु विलासिमिथुनेषु, विकचविचकिलस्रग्भिरारचितभित्तीनि कालागुरुधूपधूमश्या"मलीक्रियमाणोपरितनवितानकानि विधाय सजान्यात्मनो वासभवनानि, कालातिकमात् किमपि किमपि जायमानविरहपा"ण्डिमच्छायाहारिणीष्वधिष्ठितचन्द्रशालासु, चन्द्रिकाधिदेवताविव प्रतिभवनमिवोपलक्ष्यमाणासु वासकसज्जासु, उत्तप्तकार्तस्वर"कान्तिसर्वखतस्करीषु कालायसश्यामलान्यलिवलयनिगडानि दुःसहप्रतापेन ग्रीष्मनृपतिना लम्भितासु नवतृणश्यामले"-[F.149.A]भ्यो दीर्घदलकोशकोटरेभ्यः शनैः शनैर्निगच्छन्तीषु , पवन। २ °दूगूलेषु। ३ °छायामश्रि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312