Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 310
________________ APPENDIX 1. (A transcript from Bhoja's SP, Madras Ms.) (Chapter 36, Vol. 4, ff. 902-911) ___ (पत्र ९०२) तत्र नायकयोः प्रागसंगतयोः संगतवियुक्तयोर्वा मिथस्समागमे प्रागुत्पन्नः तदानीतनो रत्याख्यस्थायीभाव इति रतेः सत्तासंज्ञा प्रथमावस्था। ......अभि व्यक्तिसंज्ञका तद्वितीयावस्था। ......अनुबन्धसंज्ञका रतेः तृतीयावस्था। ......प्रकर्षसंज्ञका रतेः सुरीयावस्था। तासु च यथाक्रमं संक्षेपादयः समुपसर्गार्थाः भोगशब्दार्थेन संबध्यन्ते । संक्षिप्तो भोगः सत्तावस्थायाम्, संकीर्णो भोगः अभिव्यक्त्यवस्थायाम्, संपूर्णो भोगः अनुबन्धावस्थायाम्, सम्यग् भोगः प्रकर्षावस्थायामिति। स सर्वोऽपि द्विधा सामान्यरूपो विशेषरूपश्च । सामान्यरूपः पशुमृगादीनाम्, विशेषरूपो नागरक(पत्र ९०३) नायकादीनाम्.... (पत्र ९०९) अर्थष विशिष्टनायकविषयो विशेषरूप उच्यते ॥ स च सात्त्विकाविनायकमेदात् स्थिरास्थिरत्वादितारतम्यात् प्रबन्धेन उपपाद्यमानो द्वादशप्रकार उत्पद्यते प्रथमसंदर्शनक्षण एव संक्षेपेण उत्पन्नः संक्षिप्त इत्युच्यते । ....संकीर्ण द्वादशप्रकार: . ...संपूर्ण ....सम्यक् तत्र संक्षेपपक्षे रागोपाधिः प्रेमाणि द्वादशप्रकारं भवति । तत्र हरिदारागं, रोचनरागं, कांपिल्यरागं, रीतिरागं इति सात्त्विकस्य (नायकस्य), कुसुंभरागं, लाक्षारागं, अक्षीबरागं, मंजिष्ठारागं इति राजसस्य, कर्दमरागं, कषायरागं, सकलरागं, मीलीरार्ग इति तामसस्य, तत्प्रायेण पुरुषाणां विशेष (षा) उपजायन्ते। तत्र अल्पकारणापनेयः हरिद्वारागः तदति..... रस्य स हि तथा न कामेन बाध्यते यथा सत्त्वद्रेकात्करुणादिभिः, तेनासो, नातितरामतिचिरं वा रज्यते, अतो हरिद्रारा... नागानन्दे जीमूतवाहनः-न तथा सुखयति मन्ये मलयवती। इ. ....... . ... (पत्र ९१०) अनल्पकारणापनेयः रोचनारागः तन्महासत्त्वस्य । स हि कामनाबाध्यमान धर्मादिप्रवृत्तिरेव स्वकारणसामण्यतो जायते । तेनास्य नातिदुरपनेया नातिरक्ता वा रोचनाया इव रागलेखा भवति । यथा शाकुंतले. दुर्वाससः शापेनापनीतस्मृतेर्दुष्यन्तस्य-सुतनु हृदयात्प्रत्यादेश व्यलीकमपैतु ते। इ..... ... .... अनल्पकारणोपनिपातेऽपि प्रयत्लापनेयं (यः) कांपिल्यराग (गः) तदतिसात्त्विकस्य यथाहरिश्चंद्रचरिते विश्वामित्रमोचनाय दारविक्रयिणो हरिश्चंद्रस्य- हे धन्या श्रृणुतावधत्त घनिनस्तेयं मया प्रेयसी। इ...... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312