________________
८५
श्रीभोजदेवविरचिता पैतृकादृणान्मुच्यते पुरुष इत्यवश्यं दारपरिग्रहो विधेयः, न चातिशङ्किना भवितव्यम्' इत्यादि बहुधाभिधीयमानः [T. 145. B]
[ अत्रादर्शे १४६-१४७ अङ्काङ्कितं पत्रयुग्मं विनष्टम् ] दयत्यविजितधर्मक्लमप्रसरे मलयरजसे मदनकेलिक्लमग्लपितवपुषा विलासिनामतिश्लक्ष्णतया लघुतया च सततमनवरुद्धव्यजनपंव "नप्रसरेषु भोग्यतामायात्सु सितदुकूलेषु, क्रीडातडागिकानामनुकुलीरलेखमच्छिनीदलान्तरालच्छायामाश्रित्य बन्धुरितकन्धरमन्योन्यकण्डूयन सुखान्यनुभूयानुभूय मध्यन्दिनतापतन्द्रीमतिवाहयत्सु चक्रावकमिथुनेषु, तीव्रतरतरणितापभयादुपरितनसुमनसामुत्सृज्यापि मकरन्दपानमन्तर्लताभवनान्याश्रयत्सु मधुकरद्वन्द्वेषु, प्रमदवनदीर्घिकासलिलविहतिमिः शिशिरतनुलतासु निर्मोकशुचिना तनुतरेण मृगमदरसचित्रितेन च वाससा परिक्षिप्तजघनस्तनभरासु, दलितपाटलप्रसवसंवलिताभिर्विचकिलस्रग्भिराकलितकेशपाशासु, मसृणघनसाररे"णुसंवर्गणद्विगुणसुरभिणाऽच्छाच्छेन मलयरजसेनाश्लिष्टकुचतटासु, प्रियतमानभिसरन्तीषु मध्यन्दिनाभिसारिकासु, [F. 148. A] निबिडोन्मिषदृष्मसन्तप्तककुभा ग्रीष्मेण समन्ततो निरुद्धप्रसारभयानिलीन इव धारागृहेषु, आश्रित इव सुध्रुवां स्तनभरेषु, प्रविष्ट इव क्रीडाक"मलिनीनां दलप्रच्छायेषु, पुज्जीभूय स्थित इवोपवनक्षितिरुहामधःपरिसरेषु, कृतावास इव कदलीखण्डमण्डपाभ्यन्तरेषु, प्राप्तस्थितिरिव सद्यःस्नातोत्थितनितम्बिनीचिहुरभारेषु, निलीन इवातिबहलपत्रश्यामलेषु तालीवनेषु, निर्मथितदवथावनिम्ने शीतलिम्नि दरदलितमल्लिकामुकुलमालिकार्चितचिकुरनिकराभिरामे, तुहिनकरकान्तदन्तपत्रालङ्कृतकश्रवणपाशोपशोभिन्युन्मार्जितदशनद्युतिस्तबकि "ताधरे, अतिविमलस्थूलमुक्ताफलमालिकावलयितमलयरजसाश्लिष्टस्तनभरभुवि, स्वच्छसितदुकूलच्छन्नवपुषि, मुषितहरिणलाञ्छनच्छवा वतिकमनीये कामपि श्रियमाश्रयति श्यामलानामश्यामले नेपथ्यविभवे, समन्ताद् दृतिमुखोद्गीर्णाभिरम्भसो' [F. 148. B] धाराभिरासिच्यमानमरुबकव्यतिकरितदमनकामोदसुरभितदिगन्तासु सहकारतरुगहनभुवि मध्यन्दिनतापक्लान्तिमपनेतुं विलासिमि"थुनैरध्यास्यमानासु सेचनकुटीषु, दिवसकरसन्तापोपजायमानोष्मणां भवनानामन्तर्निवासमुत्सृज्य मलयरजसोन्मार्जितस्फटिक "कुट्टिमानि सौधोत्सङ्गतलानि प्रतिनिशमध्यासमानेषु विलासिमिथुनेषु, विकचविचकिलस्रग्भिरारचितभित्तीनि कालागुरुधूपधूमश्या"मलीक्रियमाणोपरितनवितानकानि विधाय सजान्यात्मनो वासभवनानि, कालातिकमात् किमपि किमपि जायमानविरहपा"ण्डिमच्छायाहारिणीष्वधिष्ठितचन्द्रशालासु, चन्द्रिकाधिदेवताविव प्रतिभवनमिवोपलक्ष्यमाणासु वासकसज्जासु, उत्तप्तकार्तस्वर"कान्तिसर्वखतस्करीषु कालायसश्यामलान्यलिवलयनिगडानि दुःसहप्रतापेन ग्रीष्मनृपतिना लम्भितासु नवतृणश्यामले"-[F.149.A]भ्यो दीर्घदलकोशकोटरेभ्यः शनैः शनैर्निगच्छन्तीषु
, पवन। २ °दूगूलेषु। ३ °छायामश्रि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org