________________
शृङ्गारमञ्जरीकथा
(1)
मभिरुचित:" [F. 144. A] तदनया रुचितघृष्टिकया सह न याति शयितुम् । भवता तु ग्रहणकमस्या एव समर्प्य समागन्तव्यम्' इत्यभिहिते मकरन्दिकयाऽभ्यधायि - 'यथा पम राकस्य मातरमहं म्लेच्छानां गर्दभानां च प्रयच्छामि प्रतिवेशिन्यश्च एवंविधा एव भवन्ति, एतद्वचसः प्रत्येतुं भवतां किं बुध्यते ' इत्यभिहिते विहस्य पमराकेणोतम् यत्- 'सुमतेर्मातरं म्लेच्छानां गर्दभानां प्रयच्छ । अहं तु भवदीयचेष्टितानां विदितस्वरूप एव । किमत्र मन्मात्रा विहितम् । " यत् किंचित् कर्तव्यं तत् सुमतिमातुरेव क्रियताम्' इत्यभिधाय अधिगतक्षितितलचेष्टितः खदेशं प्रति जगाम ।
८४
तत् पुत्रि !, विदग्धे पाखण्डमेव न कर्तव्यम्, क्रियते चेद् निर्वाहणीयमेव । अन्यथा क्रियमाणेऽस्मिन्नुपहासास्पदैर्भूयत इति ॥
इति महाराजाधिराजपरमेश्वरश्रीभोजदेव विरचितायां शृङ्गारमञ्जरीकथायां पमराककथानिका द्वादशी समाप्ता ।
00
(2)
[ त्रयोदशी मूलदेवकथानिका ]
(G)
अन्यच्च - पुत्रि ! रागः सर्व्वथा रक्षणीयः । स च त्रिधा श्रु [F. 144. B] तिरागः, दृष्टिरागः संभोगजन्मा च । त्रयोऽप्येते दूरतः परिहरणीयाः । यस्मादेतैः कुलस्त्रियोऽपि विडम्ब्यमाना दृष्टाः । तथा हि दूरे दृष्टिरागः; श्रुतिरागः विषमाशीविषमिव तदिति - वृत्तं कौतुकात् कथ्यमानमाकर्ण्यतु भवती ।
Jain Education International
(4)
(6)
अस्त्यवन्तिषु श्रीमत्युज्जयनी नाम नगरी । तस्यामत्यद्भुतप्रख्यातचरितो निजभुजविक्रमावासचक्रवर्तिपदः क्षितिपतिर्विक्रमादित्यो नाम । अस्ति च तत्र मूलदेवो " नाम धूर्तः । स च प्रेमैकपात्र में तिविदग्धः समधिगतनिखिलपाषण्डः सकलकलाकुशलः । दमयन् दशान्, वञ्चयन् विदग्धान्, प्रतारयंश्चतुरान् नर्तयन् कितवान्, आत्मनः श्रियमनन्यसाधारणामवर्धयत् । स्त्रीचेष्टितेष्वतिशङ्कमानो न च कथमात्मा " [F. 145. A] परिणीतवान् । अथैकदा - ' किमिति न परिणीयते भवता ?' इति वारंवारमभियुज्यमानो विक्रमा "केनृपतिना मूलदेवोऽभ्यधायि - 'देव स्त्रियो ह्यतिदुराराधा दुष्टाशयाः चलस्वभावा रक्षितुम " शक्याः क्षणविरागिन्यो नीचानुरागिण्यथ । स्मृतिशास्त्रेष्वपि श्रूयते यत् किलार्धमिदं शरीरस्य जाये" ति तदुष्टतायां स्वयमपकृतपाप्मनोSपि पुंसः पापित्वमामनन्ति । अतोऽहमकृतदारपरिग्रह एव जन्म क्षपयिष्यामि ।' ततो नृपतिरवोचत् - ' नैवम्, स्त्रियो हि नाम त्रिवर्गैकसाधनं सुखैकायतनं यशसोऽर्थस् सन्ततेच मूलभूताः । गार्हस्थ्यं हि निखिला श्रमजीवभूतम्, न चानुत्पादितापत्यः ३ पुंश । ४ पापित्यमामनन्ति ।
(2)
१ राग । २ मिति ।
"
For Private & Personal Use Only
www.jainelibrary.org