________________
श्रीभोजदेवविरचिता याप्यशून्या मन्मथेन, म्लानिमागताऽप्यनुपमकान्तिमती, वियोगिन्यपि हृदयममुञ्चतापि तेन (त्वया ?) योगिनी," ग्लानिमागताऽप्युञ्जीवनी मन्मथस्य, कृशापि लावण्यपरिपोषिणी, अलंकारोज्झिताऽप्यलंकरणं मनोभवस्य, सन्तापकलिकापि दृक्तापहारिणी, मनोभवोद्धान्ताऽपि विभ्रमैकायतनम् , लासिका विलासानाम् , आयतनं विभ्रमाणाम् , रतिः शृङ्गारस्य, संकेतस्थानं हृदयहारितायाः, निवासो" रूपश्रियः, सदनमसादृश्यस्य, संप्रति च तस्या निर्दय किं ब्रवीमि ? दुःखमपि दुःखगृहीतम् , आर्तिरप्यार्तिमुद्वहति, खेदोऽपि खिद्यते, "उन्माथोऽप्युन्मथ्यते, असुखमप्यसुखस्य विषयतामापन्नम् , स्वेदोऽपि विद्यते, मूच्छोपि मूच्छति, आतङ्कोऽप्यातङ्कमुद्वहति, सन्तापोऽपि सन्तप्यते", श्वसितमपि निःश्वसिति, उत्कम्पोऽप्युत्कम्प्यते, उत्कण्ठाप्युत्कण्ठयते, रणरणकोऽपि रणरणकसाकलयति, तल्लूद्वे-[1.142. A ]ल्लिरप्युद्वेल्लति, रहक्ककोऽपि रहक्कितः, रेभकोऽपि रेभकाक्रान्तः, विरहोऽपि विरहितः । तथाप्यहं किमपि न ब्रवीमि । इदं तु जाने त्वद्रूपनिरू"पणैकरसिकं चक्षुः, त्वद्गुणाकर्णनदोहदिनी श्रुतिः, त्वन्नामगर्भाः सर्वेऽप्यालापाः, त्वत्प्राप्तिप्रत्याशैकबन्धनं चेतः, त्वत्संगमोत्कण्ठितोत्कण्ठुलता, त्वत्प्रतिविम्बचुम्बिता दिशः, त्वन्मयं भुवनम् , त्वदङ्गसङ्गमोत्कण्ठितान्यङ्गकानि । अन्यच्च नलिनीदलेषु सन्तापः, बन्धुवर्गे निरपत्रपता", सखीजने कार्यम् , परिजने चिन्ता, यद्यत्पुरास्वीकृतं तत् तनिखिलमपि विभज्य केवलं श्वसितमेव स्वीकृतम्, तथाप्यतिप्रणयो मां मुखरयति । त्वमेवास्याः प्रियोऽसीति वैशिकोक्तिः । साप्यतिशयकमनीयेति प्रलापनम् । त्वमतिसुभग इति प्रत्यक्षस्तुतिः, त्वमेवैको रूपवानिति” पुनरुक्तम् , त्वं विदग्ध इति स्वरूपाधिगमनासंघः, सापि तवैवोचितेति वस्वामिनीप्रशंसा, अद्या" [F. 142. B]
[अत्रादर्शे १४३ अङ्काङ्कितं पत्रं विनष्टम् ] भवान् दूरत एव पूत्कुर्वन्नायातः, तत् कथं प्रतिभेदभयाद् गृह्णाति । यद्येवं निभृतं ददासि तत् किमिति नागृह्णाति तदर्प्यताम्' इत्युक्ते कलहंसको निभृ"तमेव ग्रहणकं समर्प्य राज्ञो न्यवेदयत् । राजा तु रजनीमुखे व्यतीते सुमतिसहायो गृहीतविशिष्टतरताम्बूलाधुपचारेण कलहंसकेनानु गम्यमानो मकरन्दिकाया गृहमगात् । ततः शय्यायामुपविश्य क्षणं स्थित्वा सुमतिमाह-'माधव ! गन्तव्यमस्माभिः' इत्यभिहिते माधवः प्राह'श्रीधर ! यद् भवते रोचते तत् क्रियताम् ।' तत उत्तिष्ठन्तं बलात् तं मकरन्दिका व्यधारयत् । 'किमिति भवन्तः सांप्रतमेवायाताः प्रस्थिताश्च' इति मकर "न्दिकयोक्ते माधवेनाभ्यधायि–'साधु मकरन्दिका भगति, किमिति यूयमिदानीमव प्रस्थिताः।' श्रीधरेणोक्तम्-'न यात्यस्याः पार्श्वेऽस्माभिः शयितुम् । ततोऽस्माभिरिदानीमेवागच्छद्भिरेतत्प्रातिवेशिनीगृहे एतदाकणितं यदस्याः कश्चित् पमराकाभिधानोऽत्यन्त
१ पोषणी। २ कण्ठि तो कुण्ठुलता। ३ सेयमो। ४ प्रलोपनम् । ५ °कया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org