Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 190
________________ ७७ श्रीभोजदेवविरचिता हेतुः यतस्तद्विनिम्मितयोषिद्विलक्षणमेव रूपमस्याः- इति विचिन्तयन्नेव तस्याः स दृष्टिपथमवततार । सा तु तमवलोकयन्ती मृगीव शरव्यतामगमन् मकरध्वजव्याधस्य । अजायत चानुरागसरसि कृतपदक मालिनी वोत्कण्टकिताङ्गयष्टिः। ततस्तयोः परस्परदशेनोल्लसितमदनयोः पल्लवप्रसर इवावर्धत स्वैरमनुरागः । ततः स तां विज्ञातुमात्मनो वयस्यमतिविदग्धं विदग्धनामानं नियुज्य स्वगृहान् प्रति प्रतस्थे । विदग्धकस्तु तद्वयस्यायास्तरलिकायास्तत्स्वरूपमवगम्य गत्वा च विनयधरस्य सविधमादितः सकलमाचचक्षे । विनयधरोऽपि तस्यां बन्धक दानाय तमेव प्राहिणोत् । अथ तयाऽनङ्गवत्या संगतस्य तस्य रतिसुखान्युपभुञ्जानस्य क्षणमिवाक्षीयत क्षपा । एवमस्य तया सह [F. 132. A] रतिसुखमनुभवतो बहूनि व्यतीयुर्दिवसानि । क्षीणविभवः परं प्राणेभ्योऽप्यधिकमरोचताथ सोऽस्यै । कुट्टनी तु तां परिहृतसविभवापरभुज "गां तदनुरक्तहृदयामाकलय्य तं विनयधरं निरधारयत् । स तु पुनर्व्याजमारचय्य प्राविशत् । सा च तिरस्कृत्य तिरस्कृत्य पुनः पुनरेनं निरधारयत्" । अनङ्गवती च भाटकिनीगृहे वयस्थासमनि चें तेन समगच्छत् । तां च तेन संगच्छमानामन्वीक्ष्य यदि पुनरप्येनेन सह संगत्स्यसे तदा मा भणिष्यसि नाख्यातमिति अनङ्गवतीमतर्जयत् । अथैकदा विनयधरः स्वनिवासादागच्छन् महान्तमतिभीषणं सद्योव्यापादितं सर्पमपश्यत् । नूनमहमे "तेन स्वकार्य साधयिष्यामिति कक्षायां निक्षिप्य तदीयभवनस्य नातिदूरे स्थित्वा कस्यापि सुमित्रस्य पार्थादनङ्गवत्या ग्रहणकं दापितवान् । आगाच शयितुम् । अथार्धरात्रे सन्निहितापवरके मत्तसुप्तायां कुट्टन्यां प्रविश्य तदीयशरीरस्योपरि मृतभुजङ्गं शनैः शनैः प्रसार्य तीक्ष्णनख[F.132.B]च्छेदेन नासिकायां दंशमकरोत् । ततश्चीत्कृत्य प्रबुद्धायां कुट्टन्यां 'भक्षिता भक्षिताऽस्मि' इति ब्रुवाणायां झगिति प्रविश्य पंचपैर्लकुटप्रहारै"स्तं भुजङ्गमताडयत् । ततो दासीमिर्झगिति प्रबोधिते दीपे सर्पमवलोक्य 'च्छेदं प्रयच्छामी'ति तेनाभिहिते-'प्रयच्छ प्रयच्छ' इत्युक्ते 'क्क प्रयच्छामि' इत्युक्ते 'अत्रात्र' इत्यभिहिते मात्रेऽपि सहोष्ठां नासिकां चिच्छेद । ततो निवृत्तायां मरणभीती प्रभातायां च रजन्याम् 'उज्जीविताम्बा' इति वर्धापन"कानि प्रवृत्तानि । तथाप्येषा वध्यपटहध्वनिमिव वर्धापनकध्वनिमाकर्णयन्ती रात्रि न्दिवमनुतप्यमाना अतिष्ठत । तत् पुत्रि ! पीड्यमाना धूर्तास्त "था किंचिदपकुर्वन्ति यथा वक्तुमपि न पार्यत इति ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां सर्पकथानिका दशमी समाप्ता । ५। ६ कक्षायं । १ प्रथ। ७ अरणकं । २'यो। ८ झगित्य । ३ राग। ४ रोचत थ सो। ९ रात्रीन्दिव। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312