________________
७७
श्रीभोजदेवविरचिता हेतुः यतस्तद्विनिम्मितयोषिद्विलक्षणमेव रूपमस्याः- इति विचिन्तयन्नेव तस्याः स दृष्टिपथमवततार । सा तु तमवलोकयन्ती मृगीव शरव्यतामगमन् मकरध्वजव्याधस्य । अजायत चानुरागसरसि कृतपदक मालिनी वोत्कण्टकिताङ्गयष्टिः। ततस्तयोः परस्परदशेनोल्लसितमदनयोः पल्लवप्रसर इवावर्धत स्वैरमनुरागः । ततः स तां विज्ञातुमात्मनो वयस्यमतिविदग्धं विदग्धनामानं नियुज्य स्वगृहान् प्रति प्रतस्थे । विदग्धकस्तु तद्वयस्यायास्तरलिकायास्तत्स्वरूपमवगम्य गत्वा च विनयधरस्य सविधमादितः सकलमाचचक्षे । विनयधरोऽपि तस्यां बन्धक दानाय तमेव प्राहिणोत् । अथ तयाऽनङ्गवत्या संगतस्य तस्य रतिसुखान्युपभुञ्जानस्य क्षणमिवाक्षीयत क्षपा । एवमस्य तया सह [F. 132. A] रतिसुखमनुभवतो बहूनि व्यतीयुर्दिवसानि । क्षीणविभवः परं प्राणेभ्योऽप्यधिकमरोचताथ सोऽस्यै । कुट्टनी तु तां परिहृतसविभवापरभुज "गां तदनुरक्तहृदयामाकलय्य तं विनयधरं निरधारयत् । स तु पुनर्व्याजमारचय्य प्राविशत् । सा च तिरस्कृत्य तिरस्कृत्य पुनः पुनरेनं निरधारयत्" । अनङ्गवती च भाटकिनीगृहे वयस्थासमनि चें तेन समगच्छत् । तां च तेन संगच्छमानामन्वीक्ष्य यदि पुनरप्येनेन सह संगत्स्यसे तदा मा भणिष्यसि नाख्यातमिति अनङ्गवतीमतर्जयत् ।
अथैकदा विनयधरः स्वनिवासादागच्छन् महान्तमतिभीषणं सद्योव्यापादितं सर्पमपश्यत् । नूनमहमे "तेन स्वकार्य साधयिष्यामिति कक्षायां निक्षिप्य तदीयभवनस्य नातिदूरे स्थित्वा कस्यापि सुमित्रस्य पार्थादनङ्गवत्या ग्रहणकं दापितवान् । आगाच शयितुम् । अथार्धरात्रे सन्निहितापवरके मत्तसुप्तायां कुट्टन्यां प्रविश्य तदीयशरीरस्योपरि मृतभुजङ्गं शनैः शनैः प्रसार्य तीक्ष्णनख[F.132.B]च्छेदेन नासिकायां दंशमकरोत् । ततश्चीत्कृत्य प्रबुद्धायां कुट्टन्यां 'भक्षिता भक्षिताऽस्मि' इति ब्रुवाणायां झगिति प्रविश्य पंचपैर्लकुटप्रहारै"स्तं भुजङ्गमताडयत् । ततो दासीमिर्झगिति प्रबोधिते दीपे सर्पमवलोक्य 'च्छेदं प्रयच्छामी'ति तेनाभिहिते-'प्रयच्छ प्रयच्छ' इत्युक्ते 'क्क प्रयच्छामि' इत्युक्ते 'अत्रात्र' इत्यभिहिते मात्रेऽपि सहोष्ठां नासिकां चिच्छेद । ततो निवृत्तायां मरणभीती प्रभातायां च रजन्याम् 'उज्जीविताम्बा' इति वर्धापन"कानि प्रवृत्तानि । तथाप्येषा वध्यपटहध्वनिमिव वर्धापनकध्वनिमाकर्णयन्ती रात्रि न्दिवमनुतप्यमाना अतिष्ठत । तत् पुत्रि ! पीड्यमाना धूर्तास्त "था किंचिदपकुर्वन्ति यथा वक्तुमपि न पार्यत इति ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां
सर्पकथानिका दशमी समाप्ता ।
५।
६ कक्षायं ।
१ प्रथ। ७ अरणकं ।
२'यो। ८ झगित्य ।
३ राग। ४ रोचत थ सो।
९ रात्रीन्दिव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org