________________
७८
शृङ्गारमञ्जरीकथा
[ एकादशी मलयसुन्दरीकथानिका] अस्मन्मते च न कश्चिदवमाननीयः । अवमता हि पुरुषाः' तन्नास्ति यन कुर्वन्ति । [F.133. A]
___ अस्ति पंचालेषु कन्यकुब्जं नाम नगरम् । तत्र निजदोर्दण्डमण्डलीखण्डितप्रचण्डारातिमण्डलश्चण्डांशुरिव दुर्निरीक्ष्यमूर्तिः महेन्द्रपालो नाम राजा"। तस्य च राज्ञो विदग्धः स्निग्धो वित्तवानुदात्तस्त्यागी व्युत्पन्नः प्रणयी प्रतापसिंहो नाम महासामन्तः । स च प्रकृत्यैव नर्मशीलः कुरूपोतिरो"मश्च । स तु राज्ञा स्वदेशान् प्रति प्रहितस्तेषु कतिपयदिनानि स्थित्वा भूयोऽपि राजसेवार्थमागच्छत् । अभ्रंकषकूटकोटिजटिलितां वमग (?) सा भ्यर्थनया परिहृता (?) केशतनूकरणोद्यमम् , आतपनिवारणायेवातिबहलनीलकान्तिभिर्दूरतरमुच्छ्रुितैस्तरुभिर्विधृतनीलातपत्रमिव" विभाव्यमानम् , आः कथं मयि जीवत्यप्ययमस्मद्वर्यपक्षच्छेदकारी कार्मुकं बिभर्तीति विचिन्त्यातिविचित्ररत्नप्रभाव्यतिकरमिषेण स तत....'च्छिद्य चापमुद्वहन्तमिवोपलक्ष्यमाणम् , उन्मदकरिगण्डकण्डूयनोत्कषणविदलितजरठसल्लकीभुवा स्वैरमितस्ततः प्रसरता प"[F.133. B]रिमलेन सुरभितदिगन्तम्, समदक्रकरकामिनीदस्यमानकठकफलत्वक्तडवारवाचालितगभीरकुञ्जकुहरम् , अत्युन्नतशिखरकोटिसंसक्तशशधरबिम्बतया रजनिच्छत्रधारिकयोक्षिप्यमाणधवलातपत्रमिवोपलक्ष्यमाणम् , अतिबहलनीलयोत्तुङ्गया क्रमुकतरुखण्डपरंपरया पुरःप्रधावमानसिकिरीसहस्रमिव संभाव्यमानम् , अभिनवप्रियङ्गुश्यामयोन्नतपयोधरया अधिकमुल्लसदिनमणिमेख लया शशधराभिरामवदनया प्रियतम एवान्तरिक्षलक्ष्म्या सर्वाङ्गमालिङ्गयमानम् , अतिकठोरमरिचमञ्जरीजालकोपभोगपटुकण्ठकुह "राणां दात्यूहव्यूहानां कुहुकुहारवेण निधुवनक्लान्तशबरसीमन्तिनीनां मन्दमपि मदनमधिकतरमुद्दीपयन्तमधिकमधुरास्वान्दोलन क्रीडा'........काकलीगीतिषु, श्लथवितीर्णकर्णतया सावहि-'[F. 134. A] तोपलक्ष्यमाणमृगकदम्बकम् , शब्दशास्त्रमिव विविधधातुभिरुप ........रबहुक्नोपचितम् , सर्वतो निपतदतिधवलनिझ"रसहस्रतयैकतः प्रवृत्तमन्दाकिनीस्रोतसमम[र]गिरिमिवोपहसितावातिकेन्द्रमिव (१) नागरगोपहितश्रियम् , रघुपतिसैन्यमिव नीलनलामि"रामम् , सन्ध्यासमयमिव प्रवृत्तनीलकण्ठम्, व्रतिनमिव समुञ्जमेखलम् , सुकृतिनमिव विधुरविरहितोच्छ्रयम् , विधिमिव विविधविलसितोपहितविस्मयम् , रविकरस्पर्शादुल्लसन्तीभिः स्फटिकमणिशिलाकान्तिभिर्दिवाप्युपजनितज्योत्स्नाशङ्कम् , कनकमयविकटकटककोटिसंसक्तमरुण"मणिविभ्रमं विभ्राणमहिमरोचिषो मण्डलमुद्वहन्तम् , गृहीताकल्पकमिव . १ पुरुषा। २ मुच्छतै'। ३ विनष्टान्यत्र द्विवाण्यक्षराणि। ५ रास्वन्दोलन । ५ विनष्टान्यत्र १२ अक्षराणि। ६ विनष्टान्यत्र ११-१२ अक्षराणि। ७ प्रतिनमिव । ८ महिमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org