SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ७६ शृङ्गारमञ्जरीकथा मधोः खेलनाय वनश्रिया विरचिते हरति चेतांस्यशो कतरुस्तबके, श्रमवशादनिभृतप्रवृत्तश्वासोत्कम्पितस्तनतटाभोगासु मरकतमणिदण्डिकाञ्चनोदश्चितभुजतयान्तरान्तरोपलक्ष्यमाण"बहुमूलावितस्ततः प्रसृतदोलारयमयतया तरलतारकास्वतिप्रबलचेला'ञ्चलमारुतागम्यमानकपोलस्थलस्वेदसलिलासुप्रियतमभुजाश्लेपमुत्थितास्वपि पतनभयकातरतया विषमजर्जरोल्लसितकाकलीगीतिषु दोलाके लिविलसितैः कामपि कम-[F. 130. A]नीयतामाकलयन्तीषु मदिरेक्षणासु, अन्यः कोऽप्येष नवो मधुव्यतिकरोऽनाघातपीतेऽप्यखिलजनमनांस्युन्मदयत्यभिनवे मधुव्यतिकरे"प्रौढिमागच्छति चास्मिन्ने वंविधोपालम्भगर्भाः सर्वतः प्रावर्तन्त प्रो पितभर्तृकाणामालापाः । निखिलमपि भुवनतलं जेतुमुद्यतस्य कुसुमसा"यकस्य कुसुममासेन सज्जीक्रियमाणेषु निरन्तरमिषुधिष्विवोद्भिद्यमानकुसुमनिकरेषु कुसुमपादपेषु, ज्योत्स्नया प्रसाद्यमानमा लोक्य शशधरमीर्ण्ययेव प्रतिवासरं तनिमागच्छन्तीषु रजनीषु, अतिनिबिडतरतुहिनार्तिव्यपगमादिव संकोचमुत्सृजत्सु वासरेषु, अनवरतनिपतद्विशिखसम्पातभीताभिरिव कामिनीभिः प्रतिभवनमभ्यर्च्यमाने विषमविशिखे, विरहिणीष्विवान्तःसन्तापग्लपितोत्पलविलोचनासु वृतमृणालवलयासु कमलिनीदलावरुद्धरुचिष्वापाण्डुपुण्डरीकवदनासु तरलितकल्हा-[F.130. B] रनिकरकुँरलवल्लरीषु तनिमानमागच्छन्तीष्वपि कामपि कमनीयतामाकलयन्तीषु कमलदीर्घिकासु, परितः पथिकहृदयानि निर्भिद्य प्रतिविपिनं निर्यात्सु मदनभल्लेष्विव पल्लवनिकरेषु, तुहिनतुना सहैवापसरति रूक्षभावे शनैः शनैरमलगर्गंनतलसंक्रान्तमिव मरक"तप्रभाश्यामलं नीलिमानमुद्वहत्सु प्रमदवनेषु, इतो मधुकरध्वनितैरितो कोकिलविरुतिभिरितः सहकारमुकुरैरितो मृगदृशां"दोलाविलासगीतिभिरितो मलयपवनप्रेङितैरितः कुसुमवीरुधां कुसुमोद्गतिभि(वनतलस्याप्यहेतुरणरणकमुत्पादयति व"सन्तसमये, अतिचिरप्रार्थितसङ्गमेन मधुना समागतासु तद्वियोगजनितमधिकं ध्यामलत्वमुत्सृज्य प्रसादमागच्छन्तीषु दिग्वधू[F. 131. A ]षु विचित्रकुसुमवण्णांशुकधारिणीषु प्रचलकिसलयासु लासकेनेव मलयमारुतेन शनैः शनैरतिललितं प्रनय॑मानासु वनराजिषु, सुरू"पसम्पदा विजितमकरकेतुः सुभगः कलाकलापकुशलः समानशीलवयोभिराप्तैरनुगम्यमानो भगवतः कालप्रियदेवस्य मधुसमय यष्ठीयात्रायामात्तकमनीयवेषस्तमेव भगवन्तं प्रेक्षितुमयासीत् । स यावत् तस्यामायतनभुवि कौतुकात् परिभ्राम्यन्नितस्ततः क्षणमेक"मास्ते तावदकस्मात् त्रिभुवनविजयैकमल्लिरिव भङ्गवतः कुसुमायुधस्य, इन्दुलेखा जननयनकुवलयानाम् , कमलसरसीन्द्रियमधु"कराणाम् , विहरणस्थली स्मरविजयवारणस्य, मुखज्योत्स्नया दिवापि बद्धचन्द्रातपमिव गगनतल-[F. 131. B]मापादयन्ती काचिदेका विलासिनी तं प्रदेशमाजगाम । ततः स तामालोक्य च मनस्थकरोत् - न खल्वस्यास्त्रिभुवनसर्गकारी प्रजापतिर्निर्मी"ण १ सरल। २ वेलाञ्चल। ३ मुस्थिता। ४ कलि। ५ 'वविधों । ६ प्रेषित । ७ कुरुल। ८ गमनतल। ९ नवमस्यकरोत् । १० तिमिर्माण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy