Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan
________________
श्रीभोजदेवविरचिता
मानमाक[ ] यन्तम्, सततमतिमसृणघुसृणारुणेन विजयलक्ष्मी " पयोधरद्वन्द्वेनेव निहितसिन्दूर शोणरोचिषातिविकटेन कुम्भकूटद्वयेनोद्भासमानम्, मार्गत्रयप्रवृत्तैरविच्छेदिभिर्दानसलिलपूरैरेकप "थवाहिनीं कालिन्दीमपि त्रिपथगामिव प्रदर्शयन्तम्, अनवरतमदजला सारसौरभाश्लिष्टमूर्तितयासन्नवर्तिभिर्मधुकरैश्चारणगणैरिवोप " गीयमानम्, अनेकसमयविजयार्जितं यश इव श्रवणावतंसतामागतमतिविमलशङ्खप्रभापूरचारुधवलचामरयुगलमुद्वहन्तम्, गाढसन्धि [ F. 80. A ] बन्धेन श्लक्ष्णसुस्निग्धत्वचातिविस्तृतेन स्कन्धेन कामपि रामणीयक श्रीकमुद्वहन्तम्, अतिविपुलासनम्, उदग्रं धनुः कुटिलपृष्ठवं शम्, अतिसुसंहतपेच "कमृज्वायत स्निग्धवालैधिमतिरमणीयमपि भीषणमखिलजननयनहारिणा हरिणेव लक्ष्मीभृतोभयतः पुष्करद्वितयेन विराजमानम्, आघाटालमनुपदिग्धं सुषममारक्षेषु त्वचः प्रकर्षमापादयन्त्या प्रतापश्रियेवानेय्या छायया परिगतम् त्वक्तनूरुहाण्डकोशगात्रापरभागेषु ह्रस्वमाननांसफलकहस्तवालधिवयतमुरोभागास नकटकपोलसृकसम दाखतिविशालम्, पश्चिमासनवंशपेचकपक्षकुक्षिजघन" कलाभागेष्वतिविभक्तम्, अतिमसृणं त्वचि विलोमे च, अतिगम्भीरमाशये ध्वनिते च, अतिचतुरं ग़मने प्रयोगे च, अतिरमणीयं आकृतॉवनू के च, अतिसुरभिं श्वसिते मदजलामोदे च, अतिमहान्तं वपुषि सच्चे च, अतिरक्तं तालुनि नेत्रान्तयोश्च । जात्याकृतिशीलसत्त्वात्मकादिभि: [ F. 80. B]
[ अत्रादर्श ८१ अङ्काङ्कितं पत्रं विनष्टम् ]
,
........दग्रहणोत्तम्भितायत करत यानेकसमर निर्जयाप्तां विजयपताकामिवात्मनः समुत्क्षिपन्तम्, शरत्समयमिवोल्लसदिपीकम्, हेमन्तमिव परमहिमोपचितम् शिशिरमिव जनितातिप्रकम्पम्, वसन्तमिव विलसदसमपुष्करम्, ग्रीष्ममित्र क्षपिताशेषवाहिनीकम्, जलद समयमिव गम्भीरतरघनध्वानम् एवमखिलर्तुमयमिवोपलक्ष्यमाणम्, अवधीरितैरावतध्वनिप्रसरम्, अनुदिवसमम्भः क्रीडासु खण्डितपुण्डरीकविभवम्, उद्दलितकुमुदशोभम्, अनेकशः समराङ्गणेष्ववजितसार्वभौमम्, अपहस्तिताञ्जनच्छविम्, अवगणितसुप्रतीकम्, अतिकमनीयेनातिदुःसहेन च तेजसा न्यक्कृतपुष्पदन्तम्, असकृत् त्रिपदिकाविलसितेन दूरीकृतवामनोत्साहव्यतिकरम् एवमाजिताखिलत्रिदशगजरा "जचक्रमिव विभाव्यमानम्, सकलजननयनहारिणीं मदावस्थामिव चतुर्थीशोभां दशां च विभ्राणम्, अतिमनोहारिणा रूपलावण्यातिशयेन त [ F. 82. A ]र्पयन्तमिवापूरयन्तमिवाप्याययन्तमिवानन्दयन्तमिव रमयन्तमिव चक्षुरिन्द्रियम् रिपुदलनाभिधानं द्विरदराजमद्राक्षीत् ।
४ 'वालव । ५ आकृत्वा ।
१ सोचिषा ।
६ लक्षमाणम् ।
Jain Education International
२ तन्निववालधि । ७ एवमजिता ।
३ सुखममा |
For Private & Personal Use Only
४७
www.jainelibrary.org
Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312