Book Title: Srngaramanjari Katha
Author(s): Bhojdev, Kalpalata K Munshi
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 179
________________ ६६ शृङ्गारमञ्जरीकथा तुष्टः 'साधु साधु, यद्भवान् भणति तदेव क्रियते ' इत्यभिधाय राजकुलम " यासीत् । तत्र गत्वा तदाकारणाय करेणुकां प्रतीहारं च प्राहिणोत् । ततस्तेन महता गौरवेणानीतः, आरूढ एव प्रवेशितः, सन्निधावुपवेशनकस्वहस्तताम्बूलदानादिना सन्मानितः । पृष्टव'किं जानासि ?' सोऽभ्यभाषत - 'सर्वाणि शास्त्राणि, निखिलाः कलाः, सर्वाणि विज्ञानानि च जानामि । सकृच्छ्रतं च गृह्णामि । इदानीमेव किञ्चित् कौतुकं दृश्यताम् । चत्वारः कथकाः कथाः कथयन्तु, अहं सारीभिः क्रीडामि । यदि दायं वि" - स्मरामि, यदि च ताम्बूलं न भवति, यदि कथानिकासु विस्मृतिर्भवति तदा मया किमपि न ज्ञातं भवति ।' राज्ञा तु कौतुकात्तथा कारिते स यथा प्रतिज्ञातं तत्सर्व्वं कर्तुमा रेभे । अत्रान्तरे लावण्यसुन्दर्या चिन्तितम् - 'किमत्र साम्प्रतं यत्ताव [F. 112. B] [ अत्रादर्शे ११३ अङ्काङ्कितं पत्रं विनष्टम् ] न समरभुवि संसाध्य मुहुर्मुहुरनृणो भवन् नृपतिप्रसादसुखान्यनुभवंश्च तेनैव नृपतिना सह सुखेन सुचिरमासाञ्चक्रे । तत् पुत्र ! पुरुषेष्वित्थमत्यन्तानुरक्ताः स्त्रिय आत्मानमर्थांच समूलकापं कषन्ति ॥ इति महाराजाधिराजपरमेश्वरश्रीभोज देवविरचितायां शृङ्गारम [ ञ्जरी ] कथायां रूयनुरागकथानिका अष्टमी समाप्ता । 06207 [ नवमी उभयानुरागकथानिका ] (6) (1) इत्थमेकतरानुरागस्य स्वरूपमावेदितम् । इदानीमुभयानुरागस्य स्वरूपमावेदयामि " । अस्त्यत्र भुवनतलविख्यातमपहसितामरावतीसौ[न्द ]र्यदर्पमपहस्तितालकाविभवं उरगपुरं नाम नगरम् । तत्र च समरसिंहो नाम राजा । स चतुरशीतेः सामन्तानां द्वादशानां च मण्डलेश्वराणां पत्रिंशतश्च राजकुलिकानां द्वासप्ततेराटविकपल्लीपतीनां च चतुविंशतेः कार्घटाना" - [ F. 114. A ] मेकविंशतेः कोङ्कणानां षट्त्रिंशतश्च वेलाकुलानामाधिपत्यमकरोत् । तस्य प्रतापावनतसकलराजमण्डलस्य वशीकृतसकलसामन्तस्य " [अ]शोकवती नामाऽतिप्रख्याताऽतिलब्धिप्रधाना दारिका रूपयौवनलावण्यैकायतनमस्ति । तस्याः सर्वे सामन्ताः सर्व्वस्वमपि प्रयच्छन्त्यक्षणि (?) तामुन्मुखाः प्रतीक्षन्ते । सा तु सर्वेभ्यः सर्वमपि तदुपादाय सामन्तच्छडकस्य प्रायच्छत् । स हि तस्याः प्राणेभ्योऽपि प्रियतमो राज्ञोऽपि सभाप्रसाद पात्रम् । सा तु क्षुरिकानाट्यं जगद्विलक्षणं नर्तितुं जानाति । अथैकदा शरत्समयदुःसहानामहिमरोचिपस्तेजसां किमपि कि [मपि ] स्पर्श१दांनादिना । २ चतुराशीतेः । ३ Jain Education International ३ साभा । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312