________________
६६
शृङ्गारमञ्जरीकथा
तुष्टः 'साधु साधु, यद्भवान् भणति तदेव क्रियते ' इत्यभिधाय राजकुलम " यासीत् । तत्र गत्वा तदाकारणाय करेणुकां प्रतीहारं च प्राहिणोत् । ततस्तेन महता गौरवेणानीतः, आरूढ एव प्रवेशितः, सन्निधावुपवेशनकस्वहस्तताम्बूलदानादिना सन्मानितः । पृष्टव'किं जानासि ?' सोऽभ्यभाषत - 'सर्वाणि शास्त्राणि, निखिलाः कलाः, सर्वाणि विज्ञानानि च जानामि । सकृच्छ्रतं च गृह्णामि । इदानीमेव किञ्चित् कौतुकं दृश्यताम् । चत्वारः कथकाः कथाः कथयन्तु, अहं सारीभिः क्रीडामि । यदि दायं वि" - स्मरामि, यदि च ताम्बूलं न भवति, यदि कथानिकासु विस्मृतिर्भवति तदा मया किमपि न ज्ञातं भवति ।' राज्ञा तु कौतुकात्तथा कारिते स यथा प्रतिज्ञातं तत्सर्व्वं कर्तुमा रेभे । अत्रान्तरे लावण्यसुन्दर्या चिन्तितम् - 'किमत्र साम्प्रतं यत्ताव [F. 112. B] [ अत्रादर्शे ११३ अङ्काङ्कितं पत्रं विनष्टम् ]
न समरभुवि संसाध्य मुहुर्मुहुरनृणो भवन् नृपतिप्रसादसुखान्यनुभवंश्च तेनैव नृपतिना सह सुखेन सुचिरमासाञ्चक्रे ।
तत् पुत्र ! पुरुषेष्वित्थमत्यन्तानुरक्ताः स्त्रिय आत्मानमर्थांच समूलकापं कषन्ति ॥ इति महाराजाधिराजपरमेश्वरश्रीभोज देवविरचितायां शृङ्गारम [ ञ्जरी ] कथायां रूयनुरागकथानिका अष्टमी समाप्ता ।
06207
[ नवमी उभयानुरागकथानिका ]
(6)
(1)
इत्थमेकतरानुरागस्य स्वरूपमावेदितम् । इदानीमुभयानुरागस्य स्वरूपमावेदयामि " । अस्त्यत्र भुवनतलविख्यातमपहसितामरावतीसौ[न्द ]र्यदर्पमपहस्तितालकाविभवं उरगपुरं नाम नगरम् । तत्र च समरसिंहो नाम राजा । स चतुरशीतेः सामन्तानां द्वादशानां च मण्डलेश्वराणां पत्रिंशतश्च राजकुलिकानां द्वासप्ततेराटविकपल्लीपतीनां च चतुविंशतेः कार्घटाना" - [ F. 114. A ] मेकविंशतेः कोङ्कणानां षट्त्रिंशतश्च वेलाकुलानामाधिपत्यमकरोत् । तस्य प्रतापावनतसकलराजमण्डलस्य वशीकृतसकलसामन्तस्य " [अ]शोकवती नामाऽतिप्रख्याताऽतिलब्धिप्रधाना दारिका रूपयौवनलावण्यैकायतनमस्ति । तस्याः सर्वे सामन्ताः सर्व्वस्वमपि प्रयच्छन्त्यक्षणि (?) तामुन्मुखाः प्रतीक्षन्ते । सा तु सर्वेभ्यः सर्वमपि तदुपादाय सामन्तच्छडकस्य प्रायच्छत् । स हि तस्याः प्राणेभ्योऽपि प्रियतमो राज्ञोऽपि सभाप्रसाद पात्रम् । सा तु क्षुरिकानाट्यं जगद्विलक्षणं नर्तितुं जानाति । अथैकदा शरत्समयदुःसहानामहिमरोचिपस्तेजसां किमपि कि [मपि ] स्पर्श१दांनादिना । २ चतुराशीतेः ।
३
Jain Education International
३ साभा ।
For Private & Personal Use Only
www.jainelibrary.org