________________
श्रीभोजदेवविरचिता
६७ सुखतामारोपयत्यवरोपयति च कलमपालिकागण्डफलकेभ्यः स्वेदसलिलजालकान्यनतिबहलतुहिनानिलोपहितमहिम"-[F. 114. B]नि हिमर्तुसमये, तुहिनकणकलितदलतया तुलितकान्तीन्युत्सृज्य कुवलयवनानि मुकुरितासु दलितद्वित्रमुकुलासु श्यामलतासु रतिमाद"धाने मधुकरकुले, प्रियतमेनेव शरत्समयेन दूरमुज्झितासु म्लानमुखकमलकान्तिषु मृणालवलयमात्रमेवाभरणमाकलयन्तीपु” तुहिनकणकलितजलतया पाण्डिमानमुद्वहन्तीषु क्रीडोपभोगशून्यासु वियोगिनीष्विव प्रतिमासमानासु कमलदीर्घिकासु, विरहिजनहृदयभेदनाधिगतसारं विशीर्णतामागतमवलोक्य बाणासनमभिनवकेरलीकपोलस्थलश्यामाभिरामास्वधिकमुल्लसन्तीष्वसितेक्षुयष्टिषु, भुवनविजयाय कार्मुकधियमावनाति मकरकेतौ, बहलपरिमलानुमितगन्धतैलानुषिक्तद्विगुणितासितस्निग्धकान्तिषु स्मर"विलासभवनेषु, निखिलकामिनीजनमनांस्यपहरत्सु हरिणीदृशामभिनवमरुबकाधिवाससुरभिषु विहुरहारेषु, शरत्समयसु-[F.115.A ]भगसम्पर्कमुत्सृज्य मलयजरसानुलेपनमीषदुपदर्शितोष्मणे कुङ्कुमाङ्गरागाय स्पृहयत्सु मिथुनमानसेषु, मुहुर्मुहुरुप हितदरदग्ध"धनसारसुरभिषु कालागुरुपरिचयोपचितपरिमलेपु प्रणयिनीकुचोष्मस्वादुस्पर्शतामासादयत्सु कामिनां सततसेव्यतामागते"षु विलासवह्निषु, गलितमकरन्दसम्पदां प्रियकसुमनसामासक्तिमुत्सृज्य कुसुमिताः प्रियङ्गुवीरुधः सरभसमाश्रयतः षट्पदानवलोक्य विस्मयस्मितलवेष्विव कुन्दलतिकान्तमुल्लसत्सु स्तोकस्तोकदलितकुमलेषु स्तबकोपान्तभागेषु अतनुतुहिनशीकरासारवाहि "वधिकतरोपहितजाड्येषु प्रवात्सु पवनेषु, अधि[कत] रजनितनिबिडाङ्गसङ्गैरन्योन्यनिमनार्धतनुतयार्धनारीश्वरव्रतमिवाश्रितेषु निखिलेऽपि भुवनतले कामिजनमिथुनेषु, त्रिभुवनविजिगीषया सञ्चरमाणस्य मदननरपतेः सेनारजःप्रसर इवानवरतमाप -[F. 115. B] तता समीरणेनोल्लासिते भूषयत्यखिलककुभामाननान्युपहृतदरदलितसरसकबूरमधुरिमन्युटुंद्धरोभ्रंकुसुमजे रजःप्रकरे मधुकरसंवर्गितोनिद्रकुसुमस्तबकशालिभिः कुन्दविटपकैरुद्घाटितयौवनतयोच्छृङ्खलायाः शिशिरश्रियः कटाक्षरिवाच्छुप्तेषूपवन भूभागेषु, अधिकमुल्लसत्यतनुतुहिने तुहिनगिरिमारुतोपजनितजडिमनि शिशिरसमये शीतिभियेवाश्रयति दक्षिणां ककुभमतिजरठरश्मावंशुमालिनि प्रत्यूषसमवनितलतल्पोत्थायमाश्रयत्सु कुकूलानलैरपहृतजडिम्नां प्रियतमाकुचोष्मणां" स्मार्यमाणेषु पथि पथिकसार्थेषु, दक्षिणाशापथिकतां गतमात्मनः प्रमोदैकनिमित्तं मित्रमवगम्य परिम्लानाम्बुजमुखेष्वति"शुचेव शीर्यमाणेषु नलिनीवनेषु, अभिनवशुकपिच्छकोमलाभिरुद्गच्छतां सस्यानामतिघनतराभिः शु" [F. 116. A ]चिभिर्निरन्तरस्थगिततयोल्लसदुन्मुखमयूखलेखाभिर्मरकतमणिशिलाभिनिचिताविव विराजमानासु क्षेत्रवसुधासु, विरलगन्धतैलाविलविरचितातिरमणीयवेणिकासु बहलतरुमधूच्छिष्टस्थगितविम्बाधरासु मसृणमसृणेन कश्मीर "जन्मना पिञ्जरि. पलिंका। २ भिरामस्व'। ३ °सामामक्ति। ४ पियङ्गु । ५ लवेष्टिव । ६ रिमत्युबुद्ध। ७ रोद्र। ८ कुकृला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org