________________
शृङ्गारमञ्जरीकथा
ततनुलतासु गृहीतनिबिडकूपासकासु शिशिरसमयव्रतमिव प्रतिपन्नासु विलासिनीषु, दरविदलितप्रियङ्गुमुकुलमालिकालङ्कृतोन्नतस्तनभराणामभिनवरोध्ररेणुच्छरितमण्डलानामन्तरान्तरार्पितमरुबकाभिः कुन्दकुसुमस्रग्भिरविरहित "केशपाशश्रियामङ्गनानां दृग्विक्षेपमात्रजनितसञ्चारे क्षोभयत्यखिलमपि भुवनं भृत्यतामागच्छत्यारोपितकुसुमकार्मुके मकरलक्ष्मणि अतनुतुहिनजडतयोत्कम्पकारिषु वहत्स्वपि समीरणेष्वहर्निशं प्रज्वलिते सुखलेशमप्यनादधाने विरहिणीनां वि[F. 116. B]रहदहने अतिप्रौढपाकतया विजितकिंशुकच्छदच्छविनि अतिघनतया निपीतशाखादलप्रकराणि निरन्तरमुद्वहद्भिः फलानि कर्कन्धूवनैरामोदिषु कुङ्कुमरसरञ्जितेष्विव मनांसि मदयत्सु भूविभागेषु, अभिनवतमालकिसलयानीलकन्दलैः कनकरसगौरप्रसवसम्भृतस्तबकहारिभिः सिद्धार्थकैर्नीलीरसव्यतिकरितहरितालद्रव्यन्यस्तपत्रभङ्गेष्विव मरकतहरितकान्तिभिरतुच्छप्रतनुकुसुमगुच्छकोपरुद्धशिखरकैरन्तरान्तर बद्धलघुफलस्तबकशालिभिः फेनलवलाञ्छितस्य कालिन्दीह्रदस्य श्रियमुद्वहद्भिः कुस्तुम्बुरुस्तम्बबाटैरुपचितेषु तरुणशुकपिच्छसोदरच्छविभिर "तिस्निग्धैस्तुहिनजडितकरतया दिनकरेणोच्छादितावशेषैस्तमःपटलैरिख वस्तुकाकेदारैः क्वचित्तेषून्मदयत्सु चेतांसि ग्रामधानकच्छस्थल "विभागेषु, नानानृपदेशादिवर्णनानुबन्धजनितमिथ्याभ्यसूयैः परस्परं कलहायमानैरतिशिशिरमरुत्सम्पर्कजनित"[F.117.A]जडिन्नामङ्गानामतिसुखस्पर्शतया च तापस्याहमहमिकया ज्वलनमिव प्रविशद्भिराबद्धमण्डलैः पथिकजनैः प्रतिसन्ध्यमासेव्यमानेषु प्रपाग्निषु, पु"ण्याग्निधूमैः स्थगितगगनतया वलयितप्रान्ततया च शीताा प्रावृतकम्बलेष्विवोपलक्ष्यमाणेषु ग्रामधानेषु, अनायततया वासराणामतिदीर्घ तया यामिनीनां बहुमतस्तनोष्मतया च प्रणयिनीनामतिबहुमानमासादयति कामिजनस्य शिशिरसमयेऽत्यायत्सु रजनीषु नि विनोदैरासितुमशक्यत्वात् तत्प्रेक्षादिक्षुः सौर्धेमध्यवर्तिनः क्रीडामण्डपस्य मध्यवर्ती समरसिंहोनृपतिरन्तरमास्थानं दत्त्वा अशोकवतीमाका"रितवान् । सा तु प्रेक्षणकानुरूपमतिविलक्षणं शृङ्गारं विधाय राजकुलं प्रति प्रतस्थे । चिन्तितं चानया 'यदि जीवितेश्वरोन पश्यति तद् वृथाऽयं शृङ्गारो नृत्तं च । ततो यदि मदीयमेनं शृङ्गारं नृपं च च्छड्डलेः पश्यति तदाहं द्रम्मशतप-"[F. 117. Bञ्चकमूल्यानि पुष्पाणि तावन्मूल्यं च भ[ग]वते प्रयच्छामि' इति तया प्रयान्त्या वर्त्मन्येकदेशस्थितस्याभ्यर्थितपूराभिधा[न]स्य गणपतेः प्रत्यश्रावि" । अवश्यं च तेन तत्र भवितव्यमिति पूर्णहृदया गत्वा नर्तितुमारेभे । ततस्तालं भक्त्या भक्त्वा करणानि दत्त्वा चतसृष्वपि दिक्षु चक्षुर्विक्षिप्य नृत्यन्ती च्छंडलं
तत्र नापश्यत् । ततो झगित्योजसः पतिताऽन्यमनस्का विच्छायवदना जीवितेनेव परित्यक्ता बभूव । ततो नर्तनोपाध्यायस्तामज्ञासीत् । सौष्ठेवात्"च्युतेयम् , राजलजया
१ अतुनु। २ काकदारैः। ३ निर्विनोदै । ४ सौध्य। ५ छद्वलः। ६ वत्म्यैक । ७ थितसूराभिधान। ८ छद्वलंः। ९ सौधवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org