________________
श्रीभोजदेवविरचिता सामान्तादिमनुष्यलजया च नृत्यति लग्ना, इदं तु नृत्तमतिविषमं सौष्ठवैकसाध्यम् , इयं तु लजया सौष्ठवमन्तरेण नृत्य "न्त्यात्मानं शस्त्रिकाया उपरि प्रक्षेप्यति, अतो लोकोत्तरं पात्रं विनश्यति लग्नमिति विचिन्त्य राज्ञे न्यवेदयत्-'मद्वल्लभः प्रेक्षिष्यत इत्याशयेयमियदवधि सौष्ठवेनैव प्रवृत्ता, इदानीं तु स इह नास्तीत्यवगम्यान्यमनस्का सौष्ठवच्युता लज्जया नृत्यन्त्यात्मानं शस्त्रिकाया उपरि प्रक्षेप्स्यति । त्व"-[F. 118.A]या जानताऽपि न कथितमिति देवो ममोपरि क्रोधं करिष्यतीति मया विज्ञप्तमिदम् । अतः परं देवः प्रमाणम् ।' राजा तु तदाकण्य प्रकाशमस्य- 'भो नर्तकोपाध्याय ! महती रात्रिवर्तते तत् संत्रियतां प्रेक्षणकम्' इत्यवादीत् । ततः क्षणं स्थित्वा शयनीयगृहमगात् । तत्राशोकवतीमाहूयाभ्यधात-'पापे ! त्वया नास्मदीया लज्जा कृता, न चैतेषां परिचितानां सामन्तादिमनुष्याणाम् । अतिप्रकटा जाताऽसि, वेश्यावृत्तमपीदं न भवति । तत् किमेतत ? ततः साऽभ्यधात-'देव ! ज्ञाताऽस्मि । किमिदानी गोप्यते । रागवशात्तनास्ति यन्न क्रियते। विरूपकं तु यन्मया नृत्तं तत्र देवो मामङ्कयतु मण्डयतु वा", सर्वस्यैव प्रभवति देवः' इत्यभिहिते नृपतिः-'पापे ! स्थानवित्तिका भवती, तद् इयति दरेऽज्यदा नात्मा मोक्तव्यः' इत्यभिधाय प्राहिणोत् । किमियं विधास्यतीति ज्ञातुं चरांश्च प्रेषयामास । सा तु राजद्वार्यव तस्या अविदिते च्छड्डलस्य चेटकैः प्रतीप्सिता खगृहमगत्वैव तदीयमन्दिरमगमत् । "[F. 118. B]
[अत्रादर्श ११९ अङ्काङ्कितं पत्रं विनष्टम् ] प्रसादमाकारकं च प्राहिणोत् । सोऽपि स्वार्नुचरेभ्यो राजप्रसादमाकारकं चागतमाकण्ये 'क राजा क वयं किं च प्रसादस्याकारकस्य वाँ का"रणम्' इति खवयस्यैः साधे गोष्ठ्याऽभ्यभाषत । तद्वयस्यानां मध्ये केनाप्यवादि-'कौतुकिनो हि राजानो भवन्ति । सुभगेन किञ्चित् प्रयोजन "मस्ति, केनापि च कथिता भवदीयवार्ता भविष्यति, तद् गृह्यतां प्रसादः सन्मान्यतामाकारकः' एवमुक्तेन तेन-'एवं क्रियते' इत्यभिधाय शिरसा' प्रतीष्य राजप्रसादं कीहगादेशः' इत्याकारकानवोचत् । तैरंवादि-"श्रुता देवेन भवदीया प्रसिद्धिरतः कौतुकाद् वयमाकारणाय प्रहि "ताः, तद् गम्यताम्' इत्युक्ते तैरेव साधं शनैः शनैर्यथासुखं गन्तुं प्रववृते । गच्छंश्च क-[F. 120. A] मेण कतिपयैरहोभिस्ताभित्रिंशता च वेश्याभिः सुरूपाभिर्वित्तयौवनशालिनीभित्रिंशता च वेलावित्तकैरनुगम्यमा"न उरगपुरं प्रापत् । अथान्येधुर्दूरादेव 'साधु साधु, स्थाने सुभगप्रवाद' इति राज्ञा निर्वर्ण्यमानरूपयौवनसौन्दयों [स] गत्वा आस्थानगतं नृपतिमपश्यत् । कृतप्रणामश्च राज्ञा सम्भाषितः स्वसन्निधौ दापितासनः स्वहस्तदत्तताम्बूलः सविनयमुपवेशितः । क्षणमिव स्थित्वा व्यजिज्ञपत्– 'देव!
१ सौष्टवैक। २ संवृयतां। ३ °वशातत्रास्ति । ४ राजद्वाय्येव । ५ स्थद्वलस्य । ६ सानु । ७ रा। ८ तैरेवादि। ९ °मानो रूप। १० °मुपवेस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org