________________
शृङ्गारमञ्जरीकथा
(3)
(6)
येन प्रयोजनेन वयमाहूताः स समयो वर्तते तदादिश्यतां यदनुष्ठेयम् ।' राजा तु विहस्य तमवादीत् - 'विदितवृत्तान्तोऽसि तदनुष्ठीयतां यत् तत्रोचितम् ।' सोऽब्रवीत् - 'अनुष्ठीयत इति कान्त्र भ्रान्तिः यदादिशति देव: [F. 120. B] परं तत्र चैतन्य - शून्यं वपुरेवास्ते इति स्वचैतन्यमपि तत्र निवेश्य यथादृष्टमनुष्ठांस्यामि' इत्यभिधाय पादयोर्निपत्य निर्जगाम । ततो राज्ञा प्रदत्तमावासस्थानं सम्प्रेष्य निजपरिवारं चतुर्भिस्तुडितालैरनुगतो विहिततत्कालोचितवेषोऽहमहमिकया सर्वस्वदानेनापि पण्याङ्गना " भिराहूयमानः सर्वा आवर्जयन् सर्व्वासामाशाः प्रयच्छन् वेश्यापाटकस्यान्तर्वम्भ्रम्यमाणोऽशोकवत्या भवनद्वारं जगाम । तत्र स्थित्वा स्वकीयैः सह पेशलालापान् कुर्वाणो मत्तवारणकस्थितया मकरदंष्ट्राभिधानया कुट्टन्याऽनुगतथाऽशोकवत्या दूरादेव व्यलोकि । सा तु तं पोडप वर्षदेशीयं निजरूपलावण्योपहसितमन्मथं दृष्ट्वा मातरमवादीत् - 'मातर् ! नायमत्रत्यो युवा अदृष्टपूर्वश्च सर्वातिशायिरूपयौवनला 'वण्यादिभिरुपेतः । ' माता तु झगिति तस्यास्तद् दृष्टिरागमाकलय्य चिरादवाप्तावकाशा तामवोचत् - 'पुत्रि ! भगवती पृथिवीयम्, सन्ति सुरूपाणा [F. 121. A] मप्यत्र सुरूपाः सुभगानामपि सुभगाः पुरुषानुबन्धाच पुरुषैरेव व्यावर्त्यन्ते तदाकार्यतामयम्' इत्यभिहिते दर्शनमात्रेणैव जातात्यन्तानुरागा तमाह्वयत् - ' भो प्राघूर्णकाः । किमिति नागम्यते ?' स तच्छ्रुत्वा 'बाढमागम्यत' इत्यभिधाय सलीलं विकटं च तत्समीपमगात् । सा तु तद्दर्शने - नैव क्षुभितेव मृदेवोन्मत्तेव सानुरागा तत्क्षणमभवत् । परित्यक्ताशेषक्षणा स्नाता तं स्त्रापयित्वा तेनैव सह निजविभवानुरूपमेकत्र भुक्त्वा शयनीयमगात् । स तु सुन्दरस्तदा राज्ञः सकाशात् पत्त निकामेकां निजानुचरेण याचयित्वा स्वसन्निधावानाययत् । तथा सा तेन निजवैदग्ध्यानुरूपं रमयितुमुपचक्रमे यथा किं वमोऽयं किमुत मायेन्द्रजालं वा किमेतदिति किमपि नाशासीत् । सुन्दरकस्तु प्रवर्त्य रतिव्यतिकरं तदीयेष्व" ङ्गेषु क्वचिद्वन्धान् क्वचित् पत्रच्छेदान् कचिद्भारतं कापि रामायणं कॅरैर्निर्मापयामास । निर्माप्य चासृक्स्रुतिमतां तेषां नखपदानां त - [F. 121. B]या पत्तनिकया तत्प्रतिविम्वकानि जग्राह । सा तु विनिवृतरतिव्यतिकरा सुप्तोत्थितेव मृ'. मूच्छितोत्थितेवोन्मुक्त दिग्भ्रमेव भ्रमत्यक्ते व ठकमूलिकामोहोत्सृष्टेव झगित्यभवत् । अचिन्तयच्च-‘किं मयैतदकुत्यग्रास .... परया पापया विहितम् । अहो दुर्लघ्या हर्तविधेर्विल" सितानां गतिरनतिक्रमणीयान्यवश्यं भाव्यान्यप्रतिविधेया नियतिर्यन्मदीय .........त्यनुरागस्यैवंविधा परिणतिः, तन्नियतमनुल्लंघ्या" भवितव्यता । तयाऽर्थ - लुब्धया पापकारिण्या नास्मि प्रतिबोधिता ।' इति चिन्तयं". .. रजनी वापससार
6
(3)
७०
(1)
१ 'मनुस्वारयामी | २ न ज्ञासीत् । ३ तदेये । ४ कर । षडक्षराणि । ७ विनष्टान्यत्र द्वित्राण्यक्षराणि । ८ विधेविल' | १० विनष्टान्यत्र ९-१० अक्षराणि ।
Jain Education International
For Private & Personal Use Only
५ मासी । ६ विनष्टान्यत्र ९ विनष्टान्यत्र ४-५ अक्षराणि ।
www.jainelibrary.org