________________
श्रीभोजदेवविरचिता
६५
(3)
कारणकं मदीयमेव मोचनकमिति राजा प्रतिपद्यते, तदैतत् गृह्णामि । ततः सङ्गमकेन तस्मिन् कौतुके राज्ञे निवेदिते तेन च तथैव प्रतिपन्ने, तत्रागत्य सङ्गमक : - ' प्रतिपन्नं राज्ञा, तद् गृह्यताम्' इत्यवादीत् । सा च तगृहीत्वा याचकादीनां त्यागे प्रायच्छत् । यथैकमहस्तथा दिन त्रयं राज्ञा सह तस्या जगाम ।
<B>
(2)
अन्यस्मिन्नहनि देशीप्रेक्षणकाभिज्ञेति राजा तामाकारितवान् । सा तु 'आगमन दिनमद्य तस्य; तद्यदाऽसावागच्छति तदा त्वयैतस्य हस्तिस्तम्भकस्य सन्निधीभूत्वा मम [मा]ला दर्शयितव्या' इति निजानुचरीमभिधाय विहितशृङ्गारा राजकुलमयासीत् । [F. 111.A] आगतां च नरपति:- 'देशीप्रेक्षणकमस्माकं त्वया दर्शयितव्यम्' इत्यभाषत । सा तु ' तथा ' इति प्रतिपद्य नर्तितुमारेभे । अथ प्रवृत्ते प्रेक्षण के यावत्तालं भं त्वा पृष्ठतोऽवलोकयति तावद्भजस्तम्भसमीपस्थां निजामनुचरीमपश्यत् । ततो राज्ञो मुख[म]वलोकयाञ्चकार । राजा तु - 'विदितोऽभिप्रायः, मोचनक ""मस्ति' इति तामवादीत् । सा तु विमुक्तधम्मिल्ला धावन्ती स्वगृहमगमत् । राजा तु तस्यास्तदाकूतमालोक्य जातकौतुकः सङ्गमकेन सहालोच्य - ' कीदृशः स" पुरुषो यस्मिन्नैवमियमनुरक्ता, अस्मलज्जामपि परित्यज्यात्मानं विमुच्यापि प्रधाविता' इत्युक्त्वा तद्वृत्तान्तं द्रष्टुं जगाम । ततस्तत्पृष्ठतो गत्वा यावज्जा" लगवाक्ष कैर्निरीक्षते तावदायान्तं रत्नदत्तमालोक्य सा गृहीतोदकपात्रा पादप्रक्षालनायोपससर्प । रत्नदत्तस्तु तामन्यथारूपामालोक्य सुबन्धुना सहेदमभ्यधात् - 'भद्र सुबन्धो ! गृहवार्तायां पानीयं प्रविष्टम्' इत्यभिधाय पादप्रक्षालनप्रवृत्तां तामवोचत् - " " [ F. 111. B] ' लावण्यसुन्दरि ! पादौ मा प्राक्षीः । त्वं हि मम जननी भवसि ।' सातु साकूतमवादीत् - 'रत्नदत्त ! किमेतत् ?' रत्नदत्तस्तां पुनरवादीत् - ' किमन्यत् । त्वं हि मत्प्रभोदराः, " तद्भवतु, पूर्यते, उपविश्यताम् ।' राजा तु सङ्गमकेन सहालोच्य 'भद्र ! श्रुतान्यस्य वचांसि । तन्निजाकारादप्यतिरिक्तः कोऽप्यस्य विवेकः । तद्भवतु दीयते दर्शनमस्य' इत्यभिधाय गवाक्षमुत्सृज्य द्वारेण प्रवेष्टुमैच्छत् । स तु राजानं प्रविशन्तं स्वप्रतिभया परिज्ञाय - 'देव ! सावधानैरग्रतः प्रवेष्टव्यम्' इत्यभिधाय दलकशस्त्रिकायां हस्तं दत्त्वा तमतर्जयत् । राजा तु तमवोचत् - 'अनया सह तत्र समये तान्यक्षराणीदानीं त्वमूनि, तत् किमेतत् " ?" सोऽभ्यधात् - 'भवान् मम शूरवण्ठो जातस्तदत्रेदमेवोचितम् । आत्मा हि प्रभुः प्रतिपाद्यते वल्लभायास्त्रियश्च । तदत्र देवस्य नोचितं स्थातुम् । स्वराजकुलं प्रति विजयः क्रियतां देवेन । देवमेवावलगितुमहमायातस्तत्रागत्य यत् किमप्या[F. 112. A]देष्यति देवस्तदहमनुष्ठास्यार्मिं ।' राजा तु तस्य पौरुषेणाचारेण च परि४ पानीयां । ५ प्रभोः । ६ स्यामः ।
(6)
२ ॰व्य ।
१ संगमिकेन । शृङ्गा ९
३ मेला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org