________________
४९
श्रीभोजदेवविरचिता तपनतेजसां विसरेण प्लुष्यमानानां वनस्थलीनां पूत्कृतेष्वि व बधिरितदिगन्तमुद्गच्छन्तीषु तारतरासु चीरिटीकाविरुतिषु, जरदजगरश्वाससन्धुक्षमाणज्वालावलीजटिलितेषु प्लुष्यमाणक्षुद्रकीट""-[ F. 84. A ] कुटुम्बकठिनत्वक्तडत्कारवाचालेषु भयचकितोड्डीयमानशकुनिकुलपक्षपालीपवनप्रेखितशिखेषु, ज्वलत्सु सर्वतो दावज्वलनेषु, दीर्घत"रदिवसजनितगमनमार्गखेदात् समुत्पन्नतांतिशय इव प्रौढतात्य[य]धर्मरश्मावापिबति सकलानपि सलिलाशयान् प्रतिदिवसमपचीय"मानसलिलतया तरङ्गितसैकतासु, प्रविरलजलोपशल्यसञ्चरद्धककुलावलोकनाकुलितशफरिकासु, जठरशेवालमञ्जरीपुञ्जतल"विश्रान्तधर्मग्लपितबालकमठासु, स्तोकस्तोकनीलायमानवेतसलतासु, रविकरोच्छिद्यमानतीरतरुसौन्दर्यसन्तापादिव तनिमान"मागच्छन्तीषु क्षितिधरनिकुञ्जस्रोतखिनीसु, मुहुर्मुहुरीषदुत्फुल्लनासिकाविवरनिःसृतश्वासपवनैरनवरतमेकतः प्रेढोलितविषाणकोटिकण्डूयितदंशोपसृष्टकुक्षिभिर्मुहुर्मुहुर्मशककुलवासनार्थमुल्लसितलाङ्गेललतिकाच्छोटितपृष्ठभागै” -[ F. 84. B] घनमहिषकुलैः कदीमानक्षुद्रजलचरेषु, पङ्कशोषवशादन्तरन्तःप्रविशत्कीटककुटुम्बिनीसंश्रियमाणसन्धिरन्ध्रेषु, पङ्कोपदिग्धान्तः प्रतनुसलि"लेषु कासारोदरेषु, तरुणतपनतापक्लमोपजनिततन्द्रीसुखान्तरालविहितरोमन्थेषु प्रच्छायमाश्रयत्सु मृगकदम्बकेषु, दृषनियूहच्छायानिलयनेनिभृतहुङ्कणकाहुकृतैर्घमक्लमकान्तिनिःसहतया निर्खनविव क्षितिधरनिकुञ्जेषु, मनाग् विनतेष्ववनिभागेष्वतिब हलरविकिरणनिपतनोद्गताभिः प्रसरन्तीभिः परितो मृगतृष्णिकाभिः प्रलोभ्यमानेपूर्द्धकर्णकन्धरेषु क्लमवशादीपन्मुकुलितलोचने"षु तर्षतरलेष्वितस्ततो धावत्सु बालहरिणकेषु, निजचापलभ्रमणखेदविधुरेष्ववनिरुहस्कन्धशाखान्तरनिलयननिभृतेषु यथायथमुपविष्टेष्वासीनप्रचलायितेन मध्यन्दिनतापतन्द्रीं गमयत्स्वपरेषु च निद्रा[ल ]सविवशतया शिथिलाङ्गेषु प्रपतत्सु पुनरुत्पत्यारोहत्सु क-[F. 35. A ]पिकुलेषु, दलितकजलश्यामलेष्वतिबहलपङ्कावलेपद्विगुणितवपुःश्यामिकेषु मुहुर्मुहुर्पूर्णमानकपिलारुणलोचनेष्वर्कभया"त् तमःसञ्चयेष्विवान्तरान्तरोल्लसितखद्योतद्युतिच्छिद्रितेषु पल्वलप्रान्तमुस्तास्तम्बगहनान्याश्रयत्सु पनवराहयूथेषु, तीव्रतरतरणिकरनिकरव्यतिकरादलननिर्मितेष्विव स्पर्शतोऽपि दत्तपथिकव्यथेषु, पक्षपुटसन्धिसञ्चारितोत्तप्तधरणिरजःकणप्लोषमीतैर्जीर्ण"तरुकोटरेषु निलीय निलीय पतत्रिभिर्विमुच्यमानागमनमार्गेषु, सहजप्रेमानुरक्तप्रेयसीपरिहरणजनितैः पथिकानामयः"शूलैरिर्वं दवदहनदग्धतृणस्तम्बशकलैः किर्मीरितदिअखेषु धर्ममर्मरितोन्मूलितक्षितिरुहच्छदनिकरकरम्बिताम्बरेषु, निविडतरताडनप्रचलझणझणायमानोत्पाकश्यामीकृततमालबीजबीजकोशीशतसततसंवर्गितचीरीचित्कारमुखरितेषु, प्रतिविपिन -[F. 85. B]मुत्सङ्गिताभिझिल्लीकोज्झिताभिः सलिलकणिकाभिरात्मनोऽपि
१ चीरिका। २ 'तोडीयमान। ३ प्रेड़ित । ४ दिग्धातः । ५ निलयना । ६ निष्टनत्स्विव । ७ पट । ८ कामामयशोलवैरिव । ९ °मर्मरतितो। १० श्यामकृतमालबीज।
शृङ्गा. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org