________________
शृङ्गारमञ्जरीकथा
(2)
तं चावलोक्य प्रहृष्टमनाः क्षणं स्थित्वा लावण्यसुन्दरीमंवोचत् - 'प्रिये लावण्यसुन्दरि ! याचस्व किमपि' इति । पुनः पुनः सादरमभ्यर्थ्यमानाऽप्येतदेवावोचत्- 'यत् त्वदीयं तत् सर्वमपि " मदीयमेव च तत् किमहमन्यद् याचे ? अथ मच्चित्तमावर्जनीयं भवतः, तद् बाल्यादारभ्य मम हस्तिनामुपरि महत् कौतुकम् । अतो दीयतां ममैवंविधा " नां शतमेकं मतङ्गजानाम्' । राज्ञाऽभिहितम् - ' कियन्मात्रमिदम् ? अन्यदपि याच्यतां यदभिरुचितम्' इत्यभिधाय हस्तिशतं प्रायच्छत् । उक्तं च तया- 'सर्व " थेयं प्रसिद्धिर्विधीयतां यथा हस्तिशतमेकं लावण्यसुन्दर्यै वितीर्णमिति ।' राज्ञा च तथैवानुष्ठितम् । ततो गतेषु द्वित्रेष्वहस्सु लावण्यसुन्दरी " विहिताञ्जलिपुटा राजानं व्यजिज्ञपत्'देव ! भवतो मोचनकमस्तु, वेश्याऽहम् । अस्मदीय ईदृश एव व्यवहारः । [ F. 82. B ] ." [ विक्रमा ]दित्यनृपतिर[वोच] त्- 'किमेतत् ? भवत्व ............ मेतत् । ततो लावण्यसु [न्दर्या] आदितः स्ववृत्तान्तं ".
*********
• ततस्तेन सह सुख
मनुभवन् सुचिरमासाञ्चक्रे । ...
..ति ।
इति महाराजाधिराजपरमेश्वर श्रीभोजदेव " [ विरचितायां शृङ्गारमञ्जरीकथायां लावण्यसुन्दरी ( ?) कथानिका षष्ठी ]
४८
[ सप्तमी कुट्टनीवञ्चनकथानिका ]
अन्यच्च धूर्तेभ्योऽपि प्रयत्नादात्मा रक्षणीयः तथा ". ....[ F. 83. A ]........ चिदपि राजहंसानां जलदसमयशङ्कामपनयन्ति " यत्र च निरन्तरोच्छ्रितयूपतया वृत्तिनिरुद्ध इव".. दारकद्वितयमभूत्
. अनुरक्तमनसः पश्चिमे वयसि
(3)
. देशान्तरगमनं प्रत्यभिलाषः । ततस्तौ धन".. . [ I. 83. B ] दीनि लङ्घयन्तौ जग्मतुः । व्रजतोश्चानयोः कुसुममासजनितां समृद्धिमवनेरुन्मनन् व्यजृम्भत दारुणो घर्म्मसमयः । क्रमेण च कठोरीभवद्भासि भगवति गभस्तिमालिनि, जीर्णतरुकोटरकुटी [ र ] कुलायनिलीनेष्वति कठोरधर्म्ममिया मसृणमसृणं कणत्सु कुक्कुर्भकुलेपु, कठिनतरघ" ग्लपितबन्धनश्लथतया निपतितातिजीर्णनिखिलच्छदचयेषु, अधिकदुःसहात पनिपातातिदूयमानक्षुद्र कीटश्रितस्कन्धत्वसन्धिषु मदलो " हितसरटसन्दंश्यमानोल्लसितद्वित्रपल्लवेषु, रुक्षतामुद्वहत्सु क्षितिरुहेषु, दिनकरकरालातपोत्तप्तपांसुतया बहलतरकुकूलान“लरजःपुञ्जकाचितेष्विव नखम्पचेषु वर्त्मसु सर्वतः प्रसरतया तरुणतर
. व्यापितसकलक्रमेण यौवन".
१ "सुन्दरी अहो' । २ बाल्यदारभ्य | ३ भिज्ञाय | मान्येव वाक्यानि पठितुं शक्यानि ।
५ रन्मथन् ।
Jain Education International
६ कुकुभ ।
For Private & Personal Use Only
४ ८३ तमस्य पत्रस्य त्रुटितत्वादि
७ तरु ।
www.jainelibrary.org