________________
५०
शृङ्गारमञ्जरीकथा दिवसकरकिरणसन्तप्तस्य शिशिरतामिवापादयत्सु, मधुसमयविरहदहनस"न्ताम्यद्वपुषां दिशा निःश्वासेष्विवोष्णदीर्येषु, प्रेडोलितार्जुनप्रसवमञ्जरीरजापुञ्जसुरभितेष्वभितः करीषंकषेषु प्रवात्सु पवनेषु,” एकस्मिन्नहनि प्रयान्तौ तौ पूर्वापरपयोराशिपर्यन्तव्यापिनीमुन्मदकरिगण्डकण्डूयमानसङ्क्रान्तदानजलसौरभभ्राम्यदलीविलासिनीवलयितस्कन्धैर्वनदेवताविरचितलतान्दोलनस्रस्तशाखाकुसुमप्रकरसंवलिततलैर्मदनोन्मदशबरराजरमणीभिः कर्णपूरार्थमनवरतमु लूयमानपल्लवैश्चटुलकपिकुलान्दोलितप्रतनुशाखाग्रभ्रश्यदस्तोकपाकफलरसामोदसुरभितैरंदयनिधुवनक्लान्ताभिः किरातकामिनीभिः [F. 86. A ]सततमासेव्यमानप्रच्छायैयौवनमदरुद्धसिद्धसुन्दरीतारतरमधुरगीतिवाचालितलतावेश्मभिः कुसुमरसास्वादमाद्यन्मधुकरवधू"झङ्कारहतपथिकहृदयैः करावयफलकुसुमजालकैरकठोरशिखिकण्ठकाण्डद्युतिसोदरं हरितिमानमुद्वहद्भिस्तरुभिरुद्भासिताम् , अचकितचकोरकामिनीचचचूर्ण्यमानमरिचवल्लिपल्लवाम् , उल्लसल्लवङ्गसंवर्यमाणतरुणपूर्गद्रुमखण्डाम् , उड्डीनशिखण्डिमण्डलीकला "पकल्पिताखण्डलकोदण्डाकाण्डमण्डितगगनमण्डलाम् , अतिचटुलचातकचञ्चपुटाचम्यमानगिरिकुहरनिर्झराम्बुविषुषम् , उद्दामदात्यू"हव्यूहकुहकुहा रावोद्दीप्यमाननिधुवनविराममन्दीकृतशबरसुन्दरीसुरतकेलिव्यतिकराम् , अतिमनोहारिहारीतविरुतहारिणीम् ,'[F. 86. B]कुकलेकुलकेलिकीर्यमाणप्रियङ्गुमञ्जरीरजापुञ्ज पांसुलितेष्ववनितलेष्वभिलक्ष्यमाणसञ्चरद्वनदेवताचरणमुद्राम् , अतिगहनतया" कापि प्रचण्डपुण्डरीकध्वनितचकितैरितस्ततः पलायमानैर्लतागहनगुप्यद्विषाणपरम्परोद्गोपनपरैस्त्रासतरललोचनैः शबरकुलै "राकुलितप्रदेशा[म्], क्वचिद्वनवराहयूथोत्खन्यमानदलितमुस्तामोदवाहिनीम्, क्वाचि]त् करिकलभकोल्लूयमानपल्लवत्रासादिव दूरोच्छ्रितशाखैः शाखिभिरधिष्ठिताम् , क्वचिन्निविडतरतरुगहनतिरोहितप्रान्तैर्दूरादपि टिट्टिभारटितसूच्यमानैनिकुञ्जस्रोतखिनीमहाह्रदैरधि"ष्ठितशैलोपशल्याम् , क्वचित् सर्वतः प्रज्वलद्दावदहनज्वालावलीकवलितक्षितिरुहाखिलप्रान्तभागतया कुतोऽप्यात्मनः शरणमनवेक्ष्यमाणेन भ्रमितकन्धरं चकितचकितमुभयतोऽप्यवकृष्यावकृष्याङ्गमतिदीनं दिक्षु चक्षुर्विक्षिपता पश्चावनमितकर्णयुगलेनातिश्लथमुक्त - F. 87. A. ]पुच्छेन विषादात् क्षणमेकमति. निश्चलेन मुहुमुहुर्निमेषोन्मेषान् विदधता शुष्यत्तालुना विदीर्णवदनतया प्रकटितदशनपतिनाऽतिमात्र"दीनाननेन प्रसृतधूमव्याकुलावमीलल्लोच[ ने]न क्षण एवात्मानं दग्धमिव मन्यमानेन इंगिति चक्षुरुन्मील्य प्रत्यङ्गमालोकयता निपतन भयाद् गाढतरगृहीतशाखेन क्षोभवशविसंस्थुलीभवत्करग्रहतया किमपि भ्रष्टेन पुनरुत्पतता भयातिशयात् सद्योऽवसीदद्वपुषा मुहुमुहुरनभिव्यक्तविहितचीत्कारेण उपर्युपरि प्रतिशाखा मितस्ततः समारोहतैकाकिना जरन्मर्कटेनारुह्यमाण जीर्णोत्तुङ्गतरु"शिखराम् , क्वचिदुल्ल
भित। २ भितैस्तैरदय । ३ पूवाद्रुम। ४ कुहकुहरोवोहीप्य । ५ अकल। ६ पुंजः पंशु। ७ संवरकुलै । . ८ष्टगिति । ९खीत्कारेण । १० माणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org