________________
श्रीभोजदेवविरचिता
५१ सद्दावदहनज्वालावलीवलयितस्थलीभागतया शनैः शनैः पुञ्जीभवत्पोतेन प्रतिदिशमतिचकितचकितमालोकय"ता स्फुटत्कठोरकण्टकग्रन्थित्वचा वंशगहनानां तडित्कारिभिर्ध्वनितैर्विहितकलभकरेणुकापीत्कारेण कुण्डलितसुण्डारेखातिगम्भीर -[F. 87. B]कण्ठगर्जितानि कुर्वता मुहुर्मुहुचक्रीभवता मुहुर्मुहुर्निर्गममार्गमुद्रीवमालोकयतोत्तम्भितकर्णयुगलेन स्तोकप्रविष्टपाश्चात्यभागेन"स्तब्धोल्लासितवालधिना त्रासोट्वानितविलोचनेन शनैः शनैरायान्तमुद्दामदवदहनमसहमानेन निर्गमनेच्छया प्रतिदिशं किमपि किमप्यायतिभृता पुनः पुजीभवता स्थित्वा क्षणं विभाव्य च दवदहनज्वालानामेकतो मान्द्यमतिविहितघेगेन कराग्रताडितभुवा रचित पीनपीत्कारेण वीराँग्रेसरद्विरददर्शितवम॑ना झगिति निःसरता ईषदह्यमानपार्थद्विरदपार्श्वतया विहितविविधारटितबधिरितदिगन्तेन मन्दजवतया पश्चात्पति[त] स्तनन्धयावेक्षणप्रतिक्षणव्यग्रधेनुकेन द्विरदयूथेन इंगित्याश्रियमाणातिहरिततरुच(व?)लयितोपान्तापरकच्छाम्", [F.88. A] अच्छभल्लोत्खातवल्मीकशिखरमृत्किीरितैकदेशाम् , क्वचिन्मध्यन्दिनतरणिकिरणसन्तप्यमानतनुतयोत्पन्नखेदैरपि शनैः शनैः" सलिलमुपसृत्य तट एव कैश्चिनिखातचरणैरुत्तध्ववालधिभिः प्रसारितकरदण्डैः सलिलमादातुं प्रवृत्तः, कैश्चित् तथैवोपादायाम्भःकुण्ड"लितशुण्डारमुत्तानितौष्ठमीषदुन्नमितकन्धरमानननिक्षिप्तपुष्करैः पिबद्भिः, कैश्चिदपि निमजोन्मजद्भिः, अपरैस्तलावाप्तिकुतूहलिमि"ालतयात्मनो निगाधतया च पयसामनवाप्तपर्यन्तैर्विश्रुतश्रुतिशिरःशुण्डारैः साकुलमुन्मजद्भिः, अपरैः सलिलमादाय प्रथममासि"क्तकुक्षिभिरुपरि सीकरासारमुत्सृजद्भिर्घर्मक्लमप्रशमनार्थमात्मनो जलमयमातपत्रमिव वितन्वानः, अपरैः सपत्रमूलमुन्मूलि-""[F.88. B]तया शिरसि निक्षिप्तया कमलिन्या सन्दिह्यमानश्रवणदशनाङ्कुरैः, इतरैासीक्रियमाणैर्विसटसत्कारोपजनितश्रुतिसुखैः, अन्यैश्चो" क्षिप्तपुष्करमम्भसि स्तोकस्तोकमितस्ततः प्लवमानैः, अपरैश्च पीत्वा पयस्तट एव किञ्चिदैवनमितजधनभागैरुत्फुल्लकुक्षिभिः स्तोकोत्तम्भितश्रवणपल्लवैरवनितलस्रस्तहस्तैरीषद्विधुतकन्धरैः श्रवणाभिमुखत्र्यश्रितैकनेत्रत्रिभागैः सावधानमाकर्णितमूत्रधाराध्वनिभिर्भूत्रीय माणैः, अन्यतश्च यूथपतिभिर्मदमलिनकपोलस्थलैर्मजद्भिः, सलिलसङ्गभयात् सहेलमुन्मुक्तगण्डभित्तीनां पुनर्दानपानाभिलाषादमुक्तो"परितनप्रदेशानां मधुकराणां मण्डलेनाधिपत्यसंसूचकमात्मनो नीलातपत्रमिव दर्शयद्भिः, अपरैरपि स्तनन्धयैः प्लवनप्रवृत्तैरगाधतया" व्यावृत्य निजनिजधेनुकानां गात्रान्तरालमाश्रयद्भिः, पिबद्भिरुत्सृजद्भिस्ताडयद्भिर्मलिनयद्भिश्च करिकुलैः प्रक्षोभ्यमाणगहनसलिलाशयाम् , क्व- [F. 89. A ] चित् क्वचिट्टङ्कच्छिन्नगिरितटनिपातिभिरुभयतो गण्डशिलासन्ध्युद्गतस्तुहीविपिनान्तरालोद्गतैरुत्तरोतरा
१ ध्वनित । २ मुदामद। ३ विरा। ४ झिगित्यां। ५°वोपादाभ्याम्भः । ६ °सानमुत्सृज्य। ७°माण । ८°ध। ९°मूत्रयमाणैः। १० मीलन। ११ सित्तीनां । १२शया। १३ शैल।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org