________________
शृङ्गारमञ्जरीकथा धवलस्फारीभवत्प्रवाहैरतिप्रसृत"तयाऽतिस्वच्छतयाऽतिदूरतया चान्तराऽनभिलक्ष्य मूर्तिभिरधःशेवालपिच्छिलशिलातलेषु निपत्य स्खलनभयादिव निर्भरं पदमननुबनिद्रिरुत्पत्य गिरिनिकुञ्जान्तरालवर्त्मना भूयोऽपि सम्भूय प्रवर्तमानैर्निझरैर्गगनतलगलन्मन्दाकिनीस्रोतःसहस्राणीव दर्शयन्तीम् , क्वचित् सद्यःप्राभिन्नकरिकरटकण्डूयनोत्कर्षणदलितत्वचा सल्लकीनामामोदेन प्रसरता वासितनिकुञ्जोदराम् , पल्लवितामिव दवदहन "ज्वालासहस्रैः, कुसुमितामिव पुण्डुकोपचितचित्रलकैः, कलितामिवातिपीवरवर्मभिः करिकुलैः, चित्रितामिव ताण्डवितशिखण्डैः” शिखण्डिमण्डलैः, मण्डितामिव निकुजसञ्चारिभिः पुण्डरीकैः, सहासामिव गिरिगुहामुखान्तरालवर्तिभिः केसरिकिशोरकैः, उत्कण्टफि[ F. 89. B]तामिव कण्टकिभिर्वेणुगहनैः, ऊर्ध्वकेशामिवोर्ध्वखर्जूरीवनैः, प्रारब्धकाकलीगीतिमिव मृदुपवनापूर्यमाणकीचकरन्ध्रध्वनितैः, प्रवृ"त्तनृत्तामिव समीरणोल्लासिभिः किसलयसहस्रैः, सखेदामिव तपनतापोत्तप्तशिलाजतुरसनिष्यन्दैः, वीज्यमानामिव पवनप्रेड्डोलि"तोत्तालताडीदलैः, वाचालामिव सर्वतः प्रसृतशकुनिकुलकोलाहलैः, कचिदुद्वाप्यमानकरिमांसवल्लूराः, क्वचिच्छोष्यमाणशार्दूलदीपित्वचः, कचिदानीयमाननिहतारण्यकद्विरददन्तमुशलाः, कचिद्विशसिताध्वन्यरुधिरलिप्तप्रक्षाल्यमानाम्बरारुणिमनिझराम्भसः", क्वचिदाँछन्नपान्थसार्थार्थविभागोपजातविसंवादकलकलाकुलितप्रान्ततरुपच्छायभुवः,कचिनिहितानेकमयूरपिच्छचित्रिततृणकु-""[F. 90. A ]टीरकनीध्रप्रान्ताः, क्वचित् स्वीक्रियमाणसार्थपदार्थाः, क्वचिद्विशोध्यमानसद्योनि"हतकरिरक्ताक्तकुम्भमुक्ताफलाः, क्वचिचैत्यद्रुमोपशल्यनिहतश्वापदकरङ्कपिशितगर्द्धप्रवृद्धक्रुधां कौलेयकानामन्योन्यसम्मर्दकोलाहलैः वाचालितदिशः, विशसितानेकश्वापदपिशितग्रामगृभुभिर्गृध्रपेटकैराबद्धमण्डलमुपरिभ्राम्यद्भिर्विशसनस्थानकराज्यच्छत्रमिव दर्शयद्भिर्निवारितातपाः, सततमभितः पच्यमा"नपिशितातिबहलधूमध्यामलितगगनानुमीयमानवसँतीभिल्लपल्लीः परिहरद्भिः सद्यो निहतानालोकयद्भिः पथि पथिकांश्चकितैः शुष्यतालभिश्चटुलविसंस्थुलपदन्यासैस्तदभिमुखं मुहुर्मुहुर्वलितग्रीवमालोकयद्भिः, समेपि च वर्त्मनि प्रस्खलद्भिरत्याकु-" [F. 90. B]लतया स्तोकमुत्पथप्रवृत्तेश्चिरनिपतितजीर्णपर्णप्रकरसङ्घलतया निजचरणपातोपजनितमर्मरध्वनिताकर्णनादापतञ्चण्डश्वापद "भियेव मुहुर्मुहुवस्सद्भिस्तोकमप्यध्वानमतिबहुं मन्यमानैः पथिकैलच्यमानमार्गाम् , कचिदतिकालकायकान्तिभिश्चिपिटनासापुटैर्वृत्तारुणविलोचनैर्गाढतरदेहबन्धसन्धिभित्रिकचरचितकूर्चकैः सदैवाबद्ध कुटिभिः प्रविष्टहनुभिरुनतगण्डास्थिभिरविद्ध"प्रतनुश्रवणैबरशिरोरुहैः परिधानीकृतमयूरपिच्छप्राग्भारैर्गृहीतधान्वनधनुभिरातद्वित्रकाष्ठमयमार्गणैर्मृगयाप्रवृत्तैः शबरसे"नापतिभिरैधिष्ठितया परितो दत्तशृङ्गकध्वनिभरितककुभा शबरसेनया दूरतोऽपि वित्रास्यमानोच्चण्ड
• १ दर्शयन्ती। २ पल्लवितनामिव । ३ पुन्द्र। ४ चित्रतामिव । ५ कचिदाच्छिन्न । ६ गृह्णभि । ७ वसत्ती। ८ मार्गम्। ९ रातद्वित्र । १० पतिसिरमि। ११ शयर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org