________________
श्रीभोजदेवविरचिता श्वापदाम् , अतिविकटोत्तुङ्गगिरिकुहरभीषणान्तरालप्रवृत्तनिस्विनी(?)शेवालपिच्छिलशिलातलेषु वर्मखदृश्यमानहिंस्रश्वापदामप्यश्रूयमाणविविधविहगध्वनिता-[F. 91. A ] मप्यनुलपभ्यमानाखिलापरभीतिहेतुमप्यतिमूकतयाऽपि द्विगुणतरभीतिदायिनीम् , दूरादेव सद्यो भृज्यमानाभ्यूषसुरभिगन्धानुमीय"मानकृष्यक्षेत्रसीमाभिः शृंयमाणातिविकटकुकुटरटितैयौवनोद्धंतवधूटिकाकृष्यमाणयत्रकमसृणचीत्कारानुमितनि:पिष्य"माणकोद्रवैः पच्यमानयवपिष्टवट्टिकासुरभितकुटीरप्राङ्गणैः कण्डमानशालिक्षिप्तमुशलक्षोदनिनदानुयातकलमकण्डनीगीति हारिभिर्विकटकटनिनंदेशोपलक्ष्यमाणकतिपयणकुटीरकैर्निवासानतिदूरवर्तिवंशीवनगम्भीरैरम्भोहदासन्नस्थानाहतस्थितिभिः पथिकाश्वासहेतुभूतैरन्तरोन्तरागिरिग्रामकैरधिष्ठिताम् , कचिदतिरुक्षद्राधीयश्शाखाशतश्लिष्टगगनतलैर्मुहुर्मुहुरुत्कूजजरत्कपो"तात्तशाखाशिखान्तरालैः क्षुद्रकीटकादित्सुकाष्ठकुट्टकोत्कुट्यमानस्कन्धकोटरग्रन्थिभिर्विरलदलतया विरलशा-"[F. 91. B] खतया च द्विधाऽप्यल्पच्छायैर्निसर्गरुक्षतयाऽतिकठिनमूर्तिभिः शुष्कशुष्यमाणजीर्णतरुसहस्रैराकुलाम् , कचिदकालनीलजलदभ्रमादुन्म"दनिनदं मयूरारावरमणीयसन्निवेशैः सदैव प्रस्रवनिर्झरसलिलस्वीकृततया ग्रीष्मेऽप्यन्यवृक्षेभ्यः समाकृष्येव सततमधिकं नीलि"मानमुद्वहद्भिर्मागर्गस्यान्तरान्तरोभयपार्श्ववर्तिभिर्निबिडतरुखण्डैरध्यासिताम् , स्थानमनानाम् , सदनं वासस्य, सनाभि भीतेः, आस्पदं विपदाम् , उद्भवक्षोणी क्षोभस्य, कारणमुत्कम्पस्य, निदानं दवथूनाम् , आस्थानी दौष्ट्यस्य, भूमि मनोभ्रमस्य, खानि खेदस्य, निषधां विषादस्य, निधानं निर्वेदस्य, सीमां संतापस्य, आकरभुवं दुष्कृतविपाकानाम् , पोषहेतुं शोषस्य, आलीमाकुलतायाः, सखीं दुःखानाम् , मातरं मोहस्य, अतिरमणीयभीषणां विन्ध्याटवीं प्रापतुः । तन्मध्येन च गच्छतोस्तयोरवमितपाथेययोः सप्तरात्रमतिचक्राम ।
___ अथ ताव-[F. 92. A ]त्यर्थ क्षुधातृष्णया च पीडितो कथं कथमपि स्वादुस्वच्छसलिलं न्यग्रोधसनाथं तडागमेकं ददृशतुः ।३............"स्याधस्तादिवसमत्यवाहयताम् । अनु च प्राप्तायां रजन्यां दुष्टश्वापदभयाद् यामिकक्रमेण विहितोद्दीप्तको रात्रिमतिवाहयितुं प्रवृत्तौ।
अथ तृतीययामे सोमदत्तोऽतिपरिश्रान्तिवशादासीनप्रचलायितानि कुर्वन् श्रुताश्रुतन्यायेन कपोतमिथुनस्य परस्परं जल्पतः संवादमशृणोत् । तत्र कपोतिकयाऽभिहितम्- 'नाथ ! जातस्य जन्तोनियतमेव निर्याणेन भवितव्यम् । तद् यदि परोपकारित्वेन भव्यभाया भवति तदतीव श्रेयस्कारि । अतो वराकाविमौ ब्राह्मणकुमारको क्षुत्पीडितावस्मदाश्रयमागतौ यदि विपद्यते तदा किमावयोर्जीवितेन ? तद् अनयोः प्राणया-"
१ श्रयमाणा। २ नो रवधू । ३ कन्द्रमान । ४ निप्रदेशो। ५ रत्नरावरागिरि । ६ क्वचिदन्तिरूक्ष। ७ निवड । ८ क्षोभस्या। ९ दौष्प्यस्य । १० आकार। ११ दुःकृत° । १२ पीडितैः। १३ विनष्टान्यन १७-१८ अक्षराणि । १४ श्रुताश्रुता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org