________________
शृङ्गारमञ्जरीकथा वानिमित्तमात्मानमावां निवेदयावः ।' त[दि ]दमाकर्ण्य कपोतेनाभ्यधायि- 'प्रिये ! साधूक्तं भवति मत्प्रिया भवती क्रियतां चैतत् । यो ह्यनयोर्मा[F.92. B] भक्षयिध्यति स राजा भविष्यति । यश्च त्वां स प्रतिदिनं सुवर्णशतपञ्चकमाप्स्यति । इदमावयोर्जन्मसमये मुनिनोत्तङ्केन सूचितमासीत्' इत्यभिधाय" तावुभावेवात्मानं तत्रोद्दीप्तके चिक्षिपतुः । तद् वृत्तान्तमाकर्ण्य दृष्ट्वा च विस्मितेन सोमदत्तेन तावुद्दीप्तकादाकृष्य गृहीतौ । ततो ज्येष्ठं भ्रातरमुत्थाप्य निवेद्य चास्मै वृत्तान्तं कपोतं तस्य भक्षणाय समर्पितवान् । स्वयं च कपोतिकां चखाद । अथाचम्य सुष्वपत् । यावत् स प्रातः प्रबुध्यते तावत् सोमदत्तस्य सविधे सुवर्णशतपञ्चकमाविरभूत् । ततः सञ्जातप्रत्ययौ तौ तत्सुवर्णमादाय प्रहृष्टौ पुनरपि यथाभिमतं गन्तुं प्रवृत्तौ ।। ___अथ मार्गे वहतोस्तयोरेकस्तृषाकरालितः पानीयमन्विष्यन्नन्यतः प्रववृते । अपरस्तु तथैव व्रजन् दूरं गतवान् । पूर्वस्तु जलमन्विष्य" व्यावृतो मार्गात् परिभ्रष्टः । एवमुभावपि परस्परवियुक्तौ [F. 93. A ]मार्गवैषम्यादन्यतोऽन्यतो जग्मतुः ।
... अथ कथावशाद् ज्येष्ठो मगधेषु राजा संवृत्तः। अपरस्तु परिभ्रमन काञ्चीनामनगरीमवापत् । तस्यां च विजितत्रिभुवनरामणीयकसम्पदि मकरदंष्ट्राभिधाना कुट्टनी प्रतिवसति । तस्याश्च दुहिता कर्पूरिकानामाऽस्ति । यस्या नयनवागुरानिपतिताः पिङ्गमृगाः पदमपि गन्तुं न शक्नुवन्ति । तया च सह तत्र तस्य रतिसुखान्यनुभवतो बहूनि दिनान्यगच्छन् । प्रायच्छत् तस्याः स प्रतिदिनमपरिमितं सुवर्णम् । न चास्य कश्चिदप्यर्थी वैमुख्यमाजगाम । न चानवरतं प्रयच्छतोऽप्यस्यार्थः परिक्षीयते । एवमक्षीणविभवतां तस्य दृष्ट्वा एकदा मकरदंष्ट्रा" खदुहितरं कर्पूरिकामिदमभाषत-'वत्से कर्पूरिके ! प्रतिदिवसमयमेवमथैर्विलसति । नचास्यार्थागमोऽभिलक्ष्यः प्रतिभासते।' इति तयोक्ते कर्पूरिकयाभ्यधायि-'अम्ब ! अहमप्यस्यार्थागमं प्रति किमपि न जानामि ।' इत्याकर्ण्य मकरदंष्ट्रा पुनरपि तामवो-[F. 93. B]चत्–'आः पापे करिके ! न खलु त्वं मया जाताऽसि । या मत्तः प्रसूता स्यात् सा किमेवंविधा बहिर्मुखी भवति ? तदिदानी तथा त्वयाऽयमभियोक्तव्यो"रञ्जनीयश्च यथा स्वकीयमर्थागमं यथावद् भवत्याः कथयति ।' ततः स तया नानाविधैरुपचारैः प्रियालापैश्च तथाऽऽवर्जितो यथा तस्यै कपोति कावृत्तान्तमखिलमप्यकथयत् । तच्च कर्पूरिका कुट्टन्यै न्यवेदयत् । अथ विदितवृत्तान्ता कुट्टनी प्रत्युज्जीवितमिव लब्धनिधानमिव प्राप्तराज्यमिवात्मानममन्यत । ततस्तया भोजनमध्ये वामनीयद्रव्याणि प्रक्षिप्य स भोजितः । ततः स भुक्तमात्र एवान्नमुद्ववाम । उद्वमंश्चासौ कपोतिका"मप्युदवमत् । तां च तेनोद्गीणमात्रामतिलोभात सलालामेव विजगाल । ततः
१ सुषुपत्। २ प्यन्नत्यतः। ३ भ्रमत् । ४ पतितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org