________________
श्रीभोजदेवविरचिता प्रभृति चास्य सुवर्णागमः प्रणनाश, कुट्टन्याश्च प्रववृते । अथ कुट्टनी [ F. 94. A ] तं निस्तुषमवगम्य कमपि व्याजमुत्पाद्य निर्धाटयामास । ततः प्रणष्टसर्वखो जीवितशेषः किमिति मया स्ववृत्तान्तस्तस्याः कथित इत्यनुतप्यमानस्त "स्या नगरीतो निर्जगाम । निर्गत्य च परिभ्राभ्यन कियति दूरे पथिकेभ्य इदमश्रोषीत् यद्-'मगधेषु कश्चिद् वैदेशिको विष्णुदत्तो नाम राजा"सञ्जातः । स चातिधार्मिकस्त्यागी च । इदमाकये कपोतिकावृत्तान्तं स स्मृत्वा नूनं मद्भात्रा भवितव्यमित्यवधार्य मगधान् स जगाम । गत्वा च तत्रात्मानमस्मै ज्ञापयित्वा कतिपयान्यहानि च स्थित्वा ततोचाप्तविशिष्टतरार्थसम्भारः स्वपराभवप्रतिचिकीर्षया पुनरपि काञ्चीमाजगा"म । आगत्य च कर्पूरिकाप्रतिवेशिन्या ग्रहणकमदात् । तया च सह तथैवार्थजातैर्विलसितुमारेभे। तेन च प्रथमदिनादप्यारभ्यत दातुः प-[F. 94. B]
[ अत्रादशैं ९५ अङ्काङ्कितं पत्रं विनष्टम् ] .........प्रत्यवादयत् । साऽपि विश्रम्भमुत्पाद्य-'कुतोऽद्भुतार्थागतिनिमित्तमेतदासादितम्' इत्यपृच्छत् । सोऽभ्यधात्- 'किमनया चिन्तया? आस्ताम् , सुमहत्येषा कथा" । प्रतिदिनं पुनः पुनरनुवध्यमानेन चानेनैतावत्कथितम् यद्-'मया श्रीपर्वतं गत्वा प्राणा'त्यय पर्यन्तानुष्ठानेन सिद्धिरियमासादिता।' अथैकदा तेन सह स्वयमपि गत्वा कर्पूरिका तस्यैवाश्वत्थद्रुमस्य तले तं विभवातिशयमपश्यत् । ततो द्विगुणतरजाताभिलाषा नानाविधैरुपायैरावय॑ तमभिहितवती- 'ममास्य विभवस्योपरि सुमहत् कौतुकम् , तद् यद्यहं भवतो वल्लभा प्रसादलेशो वा मयि विद्यते तत् सट्टिः क्रियतां कपोतिकास्वीकारेण ।' ततः सो"मदत्तेनाभ्यधायि-सुतनु ! परिगणितार्थकपोतिकाव्यतिकरः, अपरिगणितेयं सिद्धिः। तत् कथमतुल्ययोर्विभवयोर्भवति सट्टिः? ।' कर्पूरिकयाऽभिहितम्- 'तर्हि सप्तवेण्यर्जितमपि मदीयं धनमादाय सट्टिः क्रियताम् ।' सोमदत्तेनाभ्यधायि- 'भवत्स्नेहात् किं न क्रियते ? एवमस्तु ।' अपिता कपोति-[F. 96. A ]का । ततो बहिः कृतामपि कुट्टनीमाहूय वामनीयद्रव्यैर्वामयित्वा कर्पूरिकया सप्तवेण्यर्जितेन धनेन ससाक्षिकं कपोतिका प्रत्य"र्पिता । सोमदत्तेनापि तस्याः करे विरुदकं प्रपात्योक्तं यथा- 'येयं मया श्रीपर्वते सिद्धिरासादिता सा त्रिसत्येन भवत्याः पर्यवस्यतु ।' कपोतिकां" चासौ प्रक्षाल्य गिलितवान् । धनं च स्वगृहान् प्रति प्राहिणोत् । राजपरिजनं च पञ्चरात्रपर्यन्तं तथैवागमनाय सङ्केतं ग्राहयित्वा आत्मना खभ्रातुः समीपमगात् ।
१ निर्धास्था । २ सुमहा। ३ 'मानेन वाचनेनैतावत् । ४ प्राणत्यय। ५ अथैकग । ६ मेन । ७ सष्टि। ८ बहि। ९ प्रत्यर्पत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org