________________
शृङ्गारमञ्जरीकथा
अथान्येद्युः कर्पूरिका कुट्टन्या सहाश्वत्थस्य तले गत्वा कुक्कुटरटितमकरोत् । ततः स निखिलोऽपि राजपरिवारः पूर्ववत् सेवां चक्रे " । ततः पूर्णे पञ्चरात्रेऽवसिते च मूल्ये कृतकुक्कुटरटिताया अपि कर्पूरिकायाः समीपे न कचिदप्यागच्छत् । ततस्तदागमनाशयाऽश्वत्थस्येत "स्ततो भ्रान्त्वा पुनः पुनः कुक्कुटरटितान्यकरोत् । न च कश्चिदपि तां दिशमालोकयाञ्चक्रे । ततः कर्पूरिकायां कुक्कुटरटितानि कुर्वत्यां कुट्टन्याऽभि [ I. 96. B ] हितम् -' किमिति पुत्र ! पूत्करोषि ? यतः कपोतिकायां गृहे प्रविष्टायामेतदेव भवति ।' ततस्तद्दासीभिरभिहितम् -' बाई ए कुक्कुड वासइ, एक्कु लियंतह दुइजउ नासर ।' इत्युक्त्वा ताः सर्व्वा अपि हताशा आत्मनः सदृशेन मुखेन यथास्थानमगमन् । सोमदत्तोऽपि मगधेषु राज्यं कुर्वतः स्वभ्रातुः समीपं गत्वा यथासुखमतिष्ठत् ।
५६
तत्पुत्रि ! धूर्ता नातिपीडनीया, यतः पीडिताः सन्तः तत् किमपि कुर्वन्ति येन पूर्वसचितमप्यर्थमादाय प्रयान्ति ।
इति महाराजाधिराजपरमेश्वरश्रीभोजदेव विरचितायां शृङ्गारमञ्जरीकथायां कुट्टनीवनकथानिका सप्तमी समाप्ता ।
[ अष्टमी स्यनुरागकथानिका ]
यच्चोक्तं 'व्याघ्रादिव प्रेम्णः सततमात्मा रक्षणीय' इति तदपि ते प्रतिपादयामि; श्रूयताम् -
अस्त्यत्र पुण्ड्रवर्द्धनं नाम नगरम् | अनेक सुरसदनोद्यानदीर्घिकासरितडागादिभिरलङ्कृतमनेकमहाधनजन निवासितया स्पर्द्धमान[ 1. 97. A ]मिवालकया । तत्र चाऽतिमहाधनो वणिग् वसुदत्तो नाम प्रतिवसति । तस्य चातिमहता कालेनोपयाचितशतैः पुत्रो रत्नदत्तनामा समजनि । स चैकपुत्रत्वादतिदुर्ललितः पित्रा विद्याग्रहणार्थमुपाध्यायवसुभूतेः समर्पितः । स च निसर्गेण श्रुतग्राहित्वात् सकृदध्याप्यमानः सकलमपि विद्यासमुदयमचिरेणैव जग्राह । सकलाः कलाच स्वीचकार । गजशिक्षायामारूढे गजायुर्वेदे, अश्ववाहनविधौ तुरगचिकित्सिते, वणिकलासु द्यूतरहस्ये, वैशिकोपनिषदि चित्रपत्रच्छेद' पुस्तप्रभृति कलाकदम्बके परं प्रावीण्यमगमत् । एकदा तु समुपारूढयौवनः पितरमभ्यधात्'तात ! युष्मत्प्रसादात् अधीताः सकला अपि मया विद्याः, अधिगतः कलाकलापः, विदितानि सर्वविज्ञानानि, तन्मयाऽपि त्वद्धनोपभोगेन दिनान्य तिवाह्यन्त इत्यात्मनोऽप्यतित्रपा२ । ३ दिनानतिवा' |
१ छेद्य ।
1 ९७ तमस्य पत्रस्य प्रतिलिपिरनन्तरं प्राप्ता । तस्यां लिपिकारेण पङ्किसङ्ख्या नाङ्किता, अतोऽत्र तत्सूant अङ्का नोल्लिखिताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org