________________
श्रीभोजदेवविरचिता करमिव [F. 97. B] प्रतिभाति, तद् दीयतामादेशः, येनाहं स्वभुजाभ्यामेवार्थमर्जयामि' इत्युक्ते पित्रा बहुविधं प्रबोधितोऽपि रत्नदत्तः कथमपि न तस्थौ । धनार्जनाय दीयमानं प्रभूतमपि धनं न जग्राह । केवलं सुवर्णसहस्रमेकमादाय सुबन्धुनाम्नाऽनुचरेणानुगम्यमानः प्रतस्थे । अचिन्तयच्चैवम्-अतिनिन्दितोऽयमस्मत्कुलक्रमागतोऽर्थोपार्जनोपायः। तन्मया चक्रवर्तिसेवया धनमर्जनीयमिति निश्चित्य मान्य खेटाधिपतिबद्रामुकुटमवनिपतिमवलगितुमुच्च चाल । स च तस्यानुचरः सुबन्धुर्गृहीततदीयखगवसुनन्दकस्तमेवानुजगाम । अनुगच्छता च तेन रत्नदत्तोऽभ्यधायि- 'इदं भवता पितुः प्रभूतं प्रयच्छतोऽपि सुतरामल्पीयं पाथेयं गृहीतम् , तत् कथमेतावता राजसेवाक्षमावावां भविष्यावः ? पथि"[F. 98. A] च कथं निर्वाहो भविष्यति ?' एवमभिहिते रत्नदत्तेनाभ्यधायि'आपातोपयोगार्थमेव मयेदमग्राहि । न पुनः पाथेयबुद्ध्या । या कला" याश्च विद्या यानि च विज्ञानानि मया शिक्षितानि तान्येव मे पाथेयम् । द्यूते यत किमपि कितवानां वित्तं तन्मदीयम् । पत्तनेषु च यद् वेश्यानां"धनं तदपि मदीयमेव । अतस्तेनैव मे निर्वाहो भविष्यति । इयं च मे प्रतिज्ञा यद्यहं दृष्टस्तदवश्यं वेश्या मामाह्वयन्ति न च मोचयन्ति । यदि मां नाह्वयन्ति मोचयन्ति तदा तत्कालमेवाहं प्राणानुत्सृजामि।' इत्येवमभिधाय सुबन्धुना सह प्रतस्थे ।
अथ गच्छता तेन कियद्भिरप्य"होभिरासादि विदिशा नाम नगरी। तत्र च भाइलस्वामिदेवपुरे सौन्दर्यैकवसतिर्लोभैकपात्रमुद्भिद्यमानतरुणिम्नि स्मरविलासै-" [F.98. B] कास्पदे वयसि वर्तमाना मुहुर्मुहुःप्रयत्नोपचितमुग्धालकललाटफलकतया मृदुलमारुतोपनीयमानालिवलयकलितकमलैकदे "शेव तामरसिनी, स्तोकस्तोकोद्भवविलासभङ्गुरितभ्रूयुगलतया समारोप्यमाणगुणविनमर्दृढनिबद्धेव स्मरधनुर्लता, असक लोन्मीलन्मनोभवाभिनवविलासचतुरावलोकनतया मुहुर्मुहुः प्रतनुपवनकम्पमानोबुद्धंकुड्मलैवोत्पलिनी, अभिनवाविर्भवलावण्यसंवर्गितकपोलतया दरपरिपाकालिङ्गितफलेव लवलीलता, प्रतिदिनोन्मीलदसमलावण्यकमनीयकण्ठकाण्डतया समुद्भिद्यमानानतिपृथुलचन्दनकन्दलेव मलयोपत्यका, प्रतिदिवसोपचीयमानाभिनवसौन्दर्यचारुभुजलतायुगलतया उल्लसन्मुग्धवि"लसितेव मदनविलासदीर्घिका, मुग्धोद्धतकुचकुड्मलतयोद्भिन्नबालमुकुलेव मकरध्वजक्रीडाकमलसरसी, किञ्चिदुद्भिद्यमानप्रतनु-[F. 99. A]रोमावलीकलितत्रिवलीतरङ्गतया दरदृश्यबालशेवालवल्रीपरिष्वज्यमानवीचिरिव स्मरतरङ्गिणी, क्रमोपनीयमानरसनागुणस्थान"तया विस्तार्यमाणकनकफलकेव मदनदोला, स्तोकस्तोकोल्लसल्लावण्यक्रमोपचितघृत्तोरुयुगैलजङ्घाकाण्डतया प्रतिदिशोपजाय"मानरामणीयकमुग्धकदलीकाण्डयुगलेव सर
१ र्थोपार्यनोपायः। २ मानाखेटा। ३ मुद्वचाल। ४ नमदठनिद्धयेव । ५ मानाद्वोबुद्ध । ६ जुगल ।
शृङ्गा ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org