________________
शृङ्गारमञ्जरीकथा प्रमदोद्यानवसुधा, प्रतिक्षणमुपचीयमाननिसर्गारुणचरणकान्तिमत्तया विकासोल्लाससंवर्यमाणकमलेव स्थलनलिनी, तथाप्यालिङ्गितेव स्वजातिसहभुवा वैदग्ध्येन विदग्धजनमनोहारिणी निरुपम लावण्या] लावण्यसुन्दरीनामा "ऽर्घवित्तिका प्रख्याता वेश्या प्रतिवसति । सा च देवस्य पुरतो नर्तनपाल्यां नर्तितुमाजगाम ।
अथ सोऽपि तस्मिन्नेव क्षणे देवदिदृक्षया तत्रैवागमत् । तं च मत्तवारणकनिविष्टमवधूततयाऽपि निजसौन्दर्यापहस्तितकन्दर्पदर्प लावण्यसुन्दरी ददर्श । स च दृष्टमात्र एव मन्मथास्त्रैः सह प्रवि-[F. 99. B] वेश तस्या हृदयम् । अथ सा तदर्शनसमकालमेव मदनपरवशा मृच्छोविकलाङ्गी भुवि पपात । क्षणाच कथं कथमपि लब्धसज्ञा 'शिरो मे व्यथते' इति नर्तनोपाध्यायस्य पुरतो व्याजमकरोत् । अथ विदिततदभिप्रायया तदीयसख्या बकुलिकया तदाकारगोपनं कुर्वत्या नर्तनो"पाध्यायोऽभ्यधायि'प्रागेवानया ममाग्रतः कथितं शिरोव्यथा मेऽस्तीति । तत् प्रयात्वेषा स्वगृहम् । अहमेवास्या वारनृत्तं निर्वर्तयिष्यामि' इत्यभिधाय तां सम्प्रेष्य स्वयं च देवकुलवेलां निवर्त्य तस्याः समीपं जगाम । तत्रोपविश्य शरीरवार्तामापृच्छय विहस्य चेदमभ्यधात्'सखि लावण्य"सुन्दरि? त्वं सदैवास्मानुपहसितवती, इदं च पुनः पुनरभ्यधा[ त् ] यत किल भवत्यो रुचितधृष्टिकास्तदिदानी कीदृशं प्रतिभाति । भद्रिकास्तावद् वयमा 'स्महे । याः प्रथममवलोक्य रूपमवगम्य शीलमवगत्य स्थानमासाद्य सम्भोगमङ्गीकुर्मः पुरुषम् । त्वं पुन- [F. 100. A ] रत्रातिपुण्यवती याऽनवगतनिवासस्थानशीलसम्पत्तावपि पुरुषे दर्शनमात्रेणैवानुरज्यसे । इदानीं [ इमां ] चावस्थां प्राप्तासि', इत्याकर्ण्य लाव"ण्यसुन्दर्येदमभ्यधायि–'साधु कृतं भवत्या यत् प्रत्युच्चारिताऽस्मि । यन्मदीयाहङ्कृतस्य सौभाग्यगर्वस्य यौवनमदस्य चेदमेवोचितम् । किन्तु नाभिज्ञाऽसि, वक्तुं परमीदृशं नर्म च मर्मस्पर्शि नोचितम् । तदित्थं मर्मव्यथितायां मयि न युज्यते वक्तुमिदं भवत्या । साम्प्रतमिदमेव त्वदीयस्य सखीत्वस्य मे फलं यदस्मिन् समये यद् बुध्यते तद् विधीयते ।' इत्यभिहितया तयेदमभ्यधायि-'किं मदीयेन सखीत्वेन यद्येतावदपि त्वत्समीहितमहं न साधयामि ।' इत्युक्ते लावण्यसुन्दर्यवादीत्-त्वमिदमत्यल्पं मन्यसे । इदं तु सखि ! दुष्करमेव । यतस्तमालोक्य स्वप्रयोजन" एव प्रवर्त्यति भवती । मत्प्रयोजनानि तु विस्मरिष्यति ।' इत्याकर्ण्य बकुलिकयाँऽभ्यधायि-'सखि ! यस्तु सौ-"[F. 100. B] न्दर्याद् यद्यप्येवं तथाप्येवं न भवतीति मयि सम्भाव्यताम् , अवश्यमानीय भवत्या संयोजयाम्येनम् ।' इत्यभिधाय प्रतस्थे । चिन्तितं चानया यदपूर्वः" पुमान् स्थानद्वय एवावाप्यते, यदि स्वाध्यायी तदा मठिकादौ, अथ राजपुत्रादिस्तदा शून्यदेवालयादौ । तद् देवगृहादौ प्रथममेवान्वेपयामि । इति विचिन्त्यान्विष्यन्ती
१ स्थलगलिनी। २ मास्वाद्य। ३ बकुलिकायाभ्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org