________________
श्रीभोजदेवविरचिता शून्यदेवायतने तमनुचरेणोपास्यमानं शयानमपश्यत् । ततः सा तं तदीयमनुचरमवोचत्'भो ! सन्ध्यायां" शयनं भाग्यवतां नोचितम् । अयं त्वत्सखा भाग्यवानिवालोक्यते अतः प्रबोधनयैनम् ।' इत्युक्तेन तेनासौ प्रबोधितः। ततस्तयोक्तम्-'भो प्राह"णिक ! कुत आगम्यते ?' रत्नदत्तेनाभ्यधायि-'देशान्तराद् वयमायाताः, चक्रवर्तिनमवलगयितुं गमिष्यामः'' [F.101.A] इति श्रुत्वा बकुलिका क्षणमिव स्थित्वा रोदितुमारेभे । अथ तां रत्नदत्तोऽभ्यधात्-'भद्रे ! किमिति रुद्यसे?" साब्रवीत्-' भवतां सदृशाकारो मम भ्रातासी"त् तमनुस्मृत्य ममाश्रु प्रवृत्तम् । तद् भवन्तोऽपि मम भ्रातरो भवन्ति ।' इत्याकर्ण्य तेनोक्तम्-'सत्यमेतत् , किन्तु त्वद्भाता त्वदर्थक्षतावेव निमित्तमासीत् , अहं तु यत्र यत्र क्वचिदार्तिर्भवत्यास्तत्र तत्र भ्राता ।' इति श्रुत्वा बकुलिकयोक्तं-'तद् गम्यतामस्मद्गृहं तत्र प्राणिकैर्भूयताम्' इत्यभिधा य तमादाय बकुलिका लावण्यसुन्दर्या गृहमगात् । लावण्यसुन्दरी तु स्वगृहस्योपरि स्थिता गृहीतविषग्रन्थिरिदमचिन्तयत्-ममाद्य किमर्थद्वयक्षतिर्भविष्यति उतार्थसिद्धिरिति न जाने । यदि तावद् बकुलिका तं स्वगृहान् नयति" [F.101. B] तदा सखी मम हस्तादुत्तीर्णा, सोऽप्यभिलषितो गतः। तदेवमहं विपत्स्ये-इति चिन्तयन्त्येव यावदास्ते तावद् बकुलिका तदाशयमाशङ्कमाना तदीयगृ"हमेव तमनयत् । दृष्ट्वा तु लावण्यसुन्दरी मनाक् परितुष्टेव प्राह'बकुलिके! कोऽयं प्राणिकः ?' तयाभिहितम्-'अस्मद्भाता' इति बकुलिकयाऽभिहिते अपगतशङ्का कृतकृत्यमात्मानं मन्यमाना तस्योपवेशनकमदापयत् । अथ बकुलिकयाऽभ्यधायि-'प्रावणिमकस्यास्मद्धातुः क्रियताम्।' इत्य"भिहिता सा स्वविभवानुरूपमनुरागानुरूपं च तस्य स्नानभोजनादिकं प्राह्वणिकमकरोत् । क्रमाच्च प्रदोषेऽतिक्रान्ते बकुलिकायां च स्वगृहं गतायां सा रत्नदत्तं शयनीयमनयत् । तत्र यावत् तेन सह सङ्गच्छते तावद् रूपाच्छतगुणं तदीयं वैदग्ध्यमावर्जकत्वं गुणांश्चापश्यत् । तेन तस्यामेव रात्रौ सा तथा कथञ्चिदावर्जिता यथा तत्क्षण एव परित्यक्तापरपुरुषाभिलाषा तदेकवारिण्येवाभवत् । अथ परिणतिमागच्छत्यां रजन्यां तथैव ल[F.102. A]क्ष्यमाणेषु निखिलेष्वपि तमस्तारकाप्रभृतिषु भावेष्वपरिकलितस्वरूपस्य भगवतः कालस्य वशादवसितायामिव प्रतिभासमानायाम् , क्रमेण" च विजितातिस्थूलमुक्ताफलत्विषि करकोपलनिकर इव विलीयमाने तारागणे, अस्ताचलशिखरवर्तिनः शशधरस्य प्रभापटलेनानुविद्ध"मारुणं तेजो दधति, अमलमुक्तामणिमयूखचुम्बितस्योल्लसद्धहलविद्रुमलताकिरणशोणिम्नो जलधिपुलिनस्य लक्ष्मीमुद्वहति गगनतले", व्यपसरत्तिमिरग्रसरसंवलितेषु उदेष्यतः कमलिनीपतेरंशुभिः कपिशितेष्वनच्छरजनीरसोन्मार्जितेभ्यः करटीकपोलस्थलेभ्यः कान्ति "माहृत्य घटितेष्विव
. कारको । २ प्रसंरसवलितेषु। ३ करलि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org